________________
१४७
उदयसुन्दरीकथा। सकाशमपि राजसंगमाप्राप्तिदुःखमुदीरयन्तीभिर्ननांदारमपि दूतिकात्वेन समुपालब्धुं शिक्षयन्तीभिः साक्षादिडम्बितः स्वात्मा । काभिरन्योन्यं सपत्नीभिः श्वश्रूस्नुषाभिर्भ्रातृजायाननान्द्रादिभिरेकस्मिन्नेव राजन्यभिलाषमालोचयन्तीभिराहतं तत्खलु समानशीलव्यसनत्वात्सख्यम् । कासांचिदुदयसुन्दरीनिरीक्षणनिषण्णानां नाभवद्विलोचनपथे मलयवाहनः। कासांचिन्मलयवाहनालोकनप्रसक्तानां बभूव विघ्नमुदयसुन्दरीदर्शनस्य । स्थानेषु स्थानेष्वेकाः खलु मलयवाहनं वर्णयन्त्यन्याः स्फुटमुदयसुन्दरीरूपमुपकीर्तयन्त्यपराश्च मिथुनमपि श्लाघन्ते सहर्षमित्येवमनेकचेष्टापुरःसरमहंप्रथमिकया परस्परोपमईसंभ्रमेण युगपन्नगरनारीभिरालोक्यमानः, प्रशस्यमानः प्रशस्तमानसैः सूरिभिः, आशिष्यमाणस्तपोधनैः, अभिनन्द्यमानश्च प्रकृतिलोकैः, उद्दण्डचलचामरकराभिरनेकशो वारविलासिनीभिः प्रगुणितारात्रकशेषाक्षतोपकरणपात्रवतीभिर्गोत्रवि. लया( वृद्धा? )भिर्धवलगीतिमधुराभिः पौरजनसुवासिनीभिर्जयजयोद्धोषमुखरैर्बन्दिभिरुद्गीतरीतिभिर्गाथकैः पठद्भिश्च निखिलवेदार्थवेदिभिर्ब्राह्मणैः क्रियमाणमङ्गलाचारः, प्रहतपुरुहूतसंपदाडम्बरेण विविधमणितोरणोपचारचर्चिताभोगशोभिनि राजकुले संचचार ।
___ जातश्च महानुत्सवः । पतिता च गगनाजयतादुदयसुन्दरीति दयितयाध्यासितः श्रिया मर्त्यलोकमवतीर्णो मलयवाहनापरप्रकृतिजेनादेन इति जयजयालापनिर्भरैः स्वर्गिभिरनल्पशो विसृष्टा पुष्पवृष्टिः । उद्भच तत्र तैरेव सप्रमोदमास्फालितानामभ्रतरो दुन्दुभीनां विनादः। किमन्यदन्यैव हि विभू. तिरुत्सवाडम्बरस्य ।
कौसुम्भः प्रतिमन्दिरं पुरवधूवासोभिरुत्पल्लव:
श्वेतोदञ्चितगुडि(च्छि?)काभिरभितः प्रत्यापणं पुष्पितः । विस्फारैः फलितश्च पूर्णकलशैः प्रत्यङ्गणं विस्तृतः ।
प्रत्यध्वं प्रतिगोपुरं प्रतिगृहद्वारं च यस्तोरणैः ॥ अपिचदिव्यैराभरणैर्विचित्रवसनैरामोदहृद्यश्रिभि
र्माल्यै रिविलेपनैश्च समभूषासमृद्धो जनः । यदा किं न भवेद्भवेदपि यतस्तत्र प्रविष्टा पुरे __ सा तेनोदयसुन्दरीति पटुना रूपेण लक्ष्मीधुवम् ॥
अथैवमेतस्य प्रत्यहमुत्तरोत्तरप्रवर्धमानस्य मध्ये महोत्सवस्य सहसैवाज. गाम पातालभुवनात्प्रगुणिताशेषवैवाहिकोपकरणपाणिः कतिपयजरत्कञ्चुकिमह