SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३७१ रामायणम् । त्वयि ह्येवं स्थिते वातः पुत्त्राभ्यामपि चोभितः । प्रविशन्ति च्छिद्रते नृणां भूतशतानि हि ॥४१॥ उन्मत्तभाषिणञ्चैवं राममेत्य कथञ्चन । विभीषणाद्याः संभूय जगदुर्गगदखरम् ॥४२॥ धीरेष्वपि हि धीरस्त्वं वीरो वीरेष्वपि प्रभो । लज्जाकरमिदं तस्मादधैर्यं मुञ्च सम्प्रति ॥ ४३ ॥ लोकप्रसिद्धमधुना सौमित्रे रौई दैहिकम् । अङ्गसंस्कारपूर्वं हि कर्त्तव्यं समयोचितम् ॥४४॥ इत्युक्त्या कुपितो राम स्तानूचे विधुराधरः । नीवत्येष हि मे माता किमिदम्बो वचः खलाः ॥४५॥ सर्व्वेषां वः सबन्धूनां ज्वलने दाहपूर्वकम् । मृतकार्यं विधातव्यं दीर्घायुस्तन्ममानुजः ॥ ४६ ॥ म्वातस्त्वं तद्द्ब्रूहि शीघ्रं वत्स लक्ष्मण नन्वयम् । दुर्जनानां प्रवेशोस्ति किं खेदयसि माचिरम् ॥४७॥ यद्दा खलसमक्षं न वत्स कोपस्तवोचितः । इत्युक्वांसे तमारोप्य ययावन्यत्र राघवः ॥ ४८ ॥ नीत्वा स्नानगृहे रामः कदाप्यस्नपयत्खयम् । ततश्च तं खहस्तेन विलिलेप विलेपनैः ॥४६॥ आनाय्य दिव्यमोज्यानि पूरयित्वा च भाजनम् । कदाचित्तस्य पुरतो मुमोच खयमेवच ॥ ५०॥ *
SR No.022653
Book TitleJain Ramayanam
Original Sutra AuthorHemchandracharya
AuthorJagganath Shukla
PublisherDhanpatsinh Bahaddur
Publication Year1874
Total Pages388
LanguageSanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy