________________
१६४
काव्यमाला |
सङ्ग्रामेति ॥ निकाय्यं निलयम् ॥
शुद्धं निसर्गेण कलङ्कबद्धम म्रदीयः कठिनं मनः स्वम् । बहिस्तदन्तर्युधि कुर्वतीव भेजे नृपाणां समितिः सवर्मा ॥ ७ ॥
शुद्धमिति ॥ सवर्मा सकवचा, नृपाणां समितिः समूहो, युधि निसर्गेण स्वभावेन शुद्धं निर्मलं प्रदीयो मृदुतरं स्वमात्मीयं बहिर्बहिः स्थितमङ्गम्, अन्तरन्तर्गतम्, अन्तरन्तर्गतं स्वं मनो निसर्गेण कलङ्कबद्धं पापबद्धं कठिनं कठोरं बहिर्बहिर्गतम्, कुर्वतीव भेजे । बाह्ये शरीराभावं मनश्च कुर्वतां प्रहारे पीडाभावः सूच्यते ॥
रथो वरूथस्य, हयस्य वाजी, गजः करेणोः, पदिकः पदातेः, । दुर्मन्त्रितं ध्यानमिवात्मविम्बं स्वस्यैव संनद्धमिवाग्रतोऽभूत् ॥ ८ ॥ रथविति ॥ दुर्मन्त्रितं दुष्टो मन्त्रः संजातोऽस्य तद्ध्यानम् इव स्वस्यैवात्मबिम्बम् इव संनद्धं यथा स्यात्तथा तस्य तस्याप्रजः ससोऽभूत् ॥
राज्ञां सरेणुः कलुषस्वभावो रोषोद्गतश्वास इवाशु मूर्तः ।
सेने निषेधन्निव मध्यमापत्प्रापः क्षतं नेच्छति पशुलोऽपि ॥ ९ ॥ राज्ञामिति ॥ कलुषस्वभावो मलरूपः स सारोद्धतो रेणू रजः । कलुषस्वभावः पापमयो, मूर्ती राज्ञां रोषोद्गतश्वास इव । सेने निषेधन्निव आशु मध्यमापत् । प्रायः पांशुलोsपि क्षतं नेच्छति ॥
साक्षादलङ्घयो दिवसो नु सोऽयं सृष्टेरियत्तावधिरेष कश्चित् ।
आशाः समूहन्निव राजलोकः संनह्यति स्म प्रतिकेशवस्य ॥ १ 11 साक्षादिति ॥ प्रतिकेशवस्य प्रतिलक्ष्मणस्य प्रतिनारायणस्य राजलोकः 'सोऽयं सृष्टेः संसारस्य इयत्तावधिः, एष कश्चित् साक्षादलङ्घयो दिवसः, अहो प्राप्तः इति आशा दिश: समूह वितर्कयन्निव' संनह्यति स्म ॥
तमूर्जसारावणिमव्यपेतौ दुर्योधनं क्रोधपराक्रमौ तौ ।
दृष्ट्वा दधानं पुलकात्तमङ्गं रागेण भीत्याप्यभवद्ध जिन्यः ॥ ११ ॥
तमिति ॥ ध्वजिन्योः सेनयोरङ्गमूर्जसा बलेन, अव्यपेतावपरित्यक्तौ तौ लोकोत्तरौ क्रोधपराक्रमौ दधानं दुर्योधनं दुःखेन योद्धुं शक्यम्, तं रावणिमिन्द्रजितं दृष्ट्वा रागेण भीत्यापि पुलकात्तं रोमाञ्चितमभवत् ॥ भारतीये – अरौ शत्रावणिमव्यपेतावणिम्ना व्यपेतौ प्राचुर्ययुक्तौ क्रोधपराक्रमौ दधानं दुर्योधनं पाण्डवविपक्षं राजानम् ॥
नमस्यया संप्रति कुम्भकर्णे बलिं नवं संयुगभूतकेभ्यः । प्रदातुमुद्यन्तमिवारिरूपं दुःशासनं वीक्ष्य जनश्चकम्पे ॥ १२ ॥ नमेति ॥ जन: 'संयुगभूतकेभ्यो नमस्यया नमश्चिकीर्षया नवं बलि प्रदातुमुद्यन्तमिव ।