________________
सटीकम् ।
२६३ एतत् वक्ष्यमाणकार्यम् । कृत्वा निवर्त्य । आत्मनि स्वस्मिन् । सौजन्यस्य साधुत्वस्य । परां कोटिम् अत्यन्तप्रकर्षम् । “कोटी सङ्ख्याप्रकर्षयोः” इत्यमरः । प्रकटय प्रादुर्भावय । “उपकारिषु यः साधुः साधुत्वे तस्य को गुणः। अपकारिषु यः साधुः स साधुः सद्भिरुच्यते” इति वचनबलात् । अपकारिणि मय्युपकारं विधाय सुजनत्वं व्यञ्जयेति भावः ॥ ६२ ॥ अत्राणं मामपघृणमतिप्रौढमायं दुरीहं
पश्चात्तापाच्चरणपतितं सर्वसत्त्वानुकम्प । पापापेतं कुरु सकरुणं त्वाद्य याचे विनम्रः
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ॥ ६३ ॥ अत्राणमिति ॥ सर्वसत्त्वानुकम्प सर्वेषु सत्त्वेषु अनुकम्पा यस्य तस्य सम्बोधनम् । “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु" इत्यमरः । अद्य इदानीम् । विनम्रः नमनशीलः सन् । “ नम्कम्यज" इत्यादिना रत्यः । त्वा भवन्तम् । “त्वामौ द्वितीयायाः” इति त्वादेशः। याचे प्रार्थये । सौहार्दात् सुहृद्भावात् । विधुर इति वा विधुरो वियुक्त इति हेतोर्वा । “विधुरस्तु प्रविश्लिष्टः।” “इति हेतु प्रकरणे" इत्युभयत्राप्यमरः । मयि विषये । अनुक्रोशबुद्ध्या वा अनुकम्पामय्या मत्या वा । “कृपा दयाऽनुकम्पा स्यादनुक्रोशोऽपि” इत्यमरः । अपघृणं दयारहितम् । “कारुण्यं करुणा घृणा" इत्यमरः । अतिप्रौढमायं प्रवृद्धमायम् । दुरीहं दुष्टाभिप्रायम् । “इच्छा काङ्क्षा स्पृहेहा तृड् वाञ्छा लिप्सा मनोरथः” इत्यमरः । पश्चात्तापात् अनुतापात् । प्रकृतदोषस्मरणोद्भूतचित्तसन्तापादित्यर्थः । चरणपतितं पादयोरानतम् । अत्राणम् अशरणम् । "त्रातं त्राणं रक्षितमवितं गोपायितं च गुप्तं च" इत्यमरः । माम् असुरपाशम् । पापापेतं दुष्कर्मरहितम् । सकरुणं करुणया सहितम् । कुरु विधेहि ॥ ६३ ॥ .