________________
पार्श्वभ्युदयकाव्यं स्म दग्धः । “क्तक्तवतू” इति क्तः । क्रूरहृदय इत्यर्थः ॥ स्वाधिकारात् स्वस्याधिकारः स्वाधिकारः । “ स्वो ज्ञातावात्मनि " इत्यमरः । तस्मात् स्वकीयप्राधान्यात् ।। प्रमत्तः प्रमाद्यते स्म प्रमत्तः अनवहितः । “ प्रमादोऽनवधानता" इत्यमरः । “ अपायेऽवधौ” इति पञ्चमी ॥ कश्चिदैत्यः कोप्यसुरः । “ असाकल्ये तु चिच्चन " इत्यमरः । शम्बरनामा देव इति भावः ॥ निदध्यौ प्रेक्षाञ्चके । "ध्यै स्मृ” चिन्तायाम् । कर्तरि लिट् ॥ अत्र काव्ये सर्वत्र मन्दाक्रान्तानि वृत्तानि । “ मन्दाक्रान्ता कृहमदीदू” इति रत्नमञ्जूषिकायामुक्तत्वात् ॥ १॥ तन्माहात्म्यात्स्थितवति सति स्वे विमाने समानः
प्रेक्षाश्चक्रे भ्रुकुटिविषमं लब्धसज्ञो विभागात् । ज्यायान्भ्रातुर्वियुतपतिना प्राक्कलत्रेण योऽभू
च्छापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ॥२॥ तन्माहात्म्यादिति ॥ तन्माहात्म्यात् । महांश्चासावात्मा च महात्मा तस्य भावो माहात्म्यम् । “ पतिराजान्तः ” इति भावे ट्यण् । "आरैचोक्ष्वादेः” इति आकारः । तस्य पार्श्वनाथस्य माहात्म्यं तथोक्तं तस्मात् । तत्तपोमहिम्न इति भावः॥ स्खे स्वकीये। स्वं त्रिष्वात्मीय-" इत्यमरः ॥ विमाने व्योमयाने "व्योमयानं विमानोऽस्त्री" इत्यमरः ॥ स्थितवति सति तिष्ठति स्मेति स्थितवान् । "क्तक्तवतू" इति क्तवतुप्रत्ययः । तस्मिन् । स्तम्भिते इत्यर्थः । अस्तीति सन् । “शतृत्यः नमस्त्योः ” इत्यलुक् । तस्मिन् प्राक्पूर्वभवे ॥ वियुतपतिना । वियुतो विमुक्तः पतिर्भर्त्ता यस्य तथेति बसः। तेन ॥ भ्रातुःमरुभूतेः।। कलत्रेण भार्यया वसुन्धरया। “कलत्रं श्रोणिभार्ययोः” इत्यमरः ।
१ जनपदभुवेत्यस्य पाठान्तरं-जैनेन्द्रव्याकरणे बहुव्रीहि समासस्य बस इति परिभाषा च।