________________
पार्थाभ्युदयकाव्यं क्तास्तान् । “ ज्योतिर्भिद्योतदृष्टिषु" इत्यमरः । नानाभरणरचनायोग्यरत्नप्रवेकान् नानाभरणानां विविधालङ्काराणां रचनाया निर्माणस्य योग्यानि तानि च तानि रत्नानि च तेषां प्रवेका उत्तमास्तान् । " प्रवेकानुत्तमोत्तमाः” इत्यमरः । विद्रुमाणां प्रवालानाम् । “ अथ विद्रुमः पुंसि प्रवालं पुनपुंसकम् ” इत्यमरः । भङ्गांश्च खण्डानपि । दृष्ट्वा प्रेक्ष्य । तोयमात्रावशेषाः तोयमात्रेण अवशेषाः सहिताः । सलिलनिधयः समुद्राः । संलक्ष्यन्ते जनैरुपमीयन्ते रत्नसम्पद्भिः रत्नाकरादप्यतिरिच्यते इति भावः ॥ ११६ ॥ विश्रम्योच्चैर्वलभिषु पुरीं प्राप्य तामुत्तमाई
स्वर्गावासप्रणयमुररीकृत्य सौधैस्तथाऽस्याः। जालोद्गीणैरुपचितवपुः केशसंस्कारधूपै
बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्तोपहारः ॥ ११७ ॥ विश्रम्येति ॥ उत्तमार्द्धम् उत्तमा ऋद्धिर्यस्यास्तां प्रवृद्धसम्पत्तिम् । तां पुरीम् विशालाम् । प्राप्य गत्वा । वलभिषु भवनाच्छादनेषु । " आच्छादनं स्याद्वलभिर्गृहाणाम्" इति हलायुधः । उच्चैः परम् । विश्रम्य मार्गश्रममपनीय । सौधैः राजसदनैः । “ सौधोऽस्त्री राजसदनम्" इत्यमरः । स्वर्गावासप्रणयं स्वर्गनिलयवत्प्रमोदम् । उररीकृत्य अङ्गीकृत्य । “ ऊर!री चोररी च विस्तारङ्गीकृते त्रयम् " इत्यमरः । तथा तद्वत् । जालोद्गीणैः गवाक्षमार्गनिर्गतैः । “ जालं गवाक्षमानाये जालके च भटागणे” इति यादवः । केशसंस्कारधूपैः युवतिकेशवासनाप्रयुक्तधूपधूमैः । उपचितवपुः सञ्चितशरीरः । "निदिग्धोपचिते” इत्यमरः । भवनशिखिभिः गृहमयूरैः । “शिखावलः शिखी केकी" इत्यमरः । बन्धुप्रीत्या बन्धोः बन्धुरिति वा प्रीत्या बन्धुप्रीत्या । दत्तनृत्तोपहारः दत्तो नृत्तमेव उपहारो उपायनं १ शुक्लापाङ्गसन्तोषकरवान्मेघस्य बन्धुत्वं युक्तं ।