________________
वर्तमाना अतीतत्वं, भाविनो वर्तमानताम् ।
पदार्थाः प्रतिपद्यन्ते, कालक्रीडाविडम्बिता: ||४१|| [ अजीवतत्त्वम् ] मनोवचनकायानां, यत्स्यात् कर्म स आस्रवः ।
शुभ: शुभस्य हेतुः स्यादशुभस्त्वशुभस्य सः ॥४२॥ [आस्रवः] सर्वेषामास्रवाणां यो रोधहेतुः स संवरः ।
कर्मणां भवहेतूनां, जरणादिह निर्जरा ||४३|| [ संवरनिर्जरे]
सकषायतया जीवः, कर्मयोग्यांस्तु पुद्गलान् ।
यदादत्ते स बन्ध: स्याज्जीवा: स्वातन्त्र्यकारणम् [जीवाऽस्वातन्त्र्यकारणम् ] ॥४४॥
प्रकृति-स्थित्यनुभाव- प्रदेशा विधयोऽस्य तु ।
प्रकृतिस्तु स्वभावः स्याज्ज्ञानाऽऽवृत्यादिरष्टधा ॥४५॥ निकर्षोत्कर्षतः कालनियमः कर्मणां स्थितिः । अनुभावो विपाकः स्यात्, प्रदेशोंऽशप्रकल्पनम् ॥४६॥
मिथ्यादृष्टिरविरतिप्रमादौ च क्रुधादयः । योगेन सह पञ्चैते, विज्ञेया बन्धहेतवः ॥ ४७|| [बन्धतत्त्वम् ]
अभावे बन्धहेतूनां, घातिकर्मक्षयोद्भवे । केवले सति मोक्षः स्याच्छेषाणां कर्मणां क्षये ॥४८॥
सुराऽसुरनरेन्द्राणां यत्सुखं भुवनत्रये । स स्यादनन्तभागोऽपि, न मोक्षसुखसम्पदः ॥४९॥
स्वस्वभावजमत्यक्षं, यदस्मिन् शाश्वतं सुखम् । चतुर्वर्गाऽग्रणीत्वेन, तेन मोक्षः प्रकीर्त्तितः ॥५०॥ [ मोक्षतत्त्वम् ] इति चन्द्रप्रभासाऽऽख्ये, स्थितः क्षेत्रे जिनेश्वरः । चन्द्रप्रभप्रभुर्धर्म्म, चख्यौ द्वादशपर्षदम् ॥५१॥
ततोऽन्यत्राऽपरान् जीवान्, प्रबोधयितुमात्मना । स्वामी चचाल तत्स्थानावृतो नरसुराऽसुरैः ॥५२॥
दिग्विरतिव्रतादीनुद्दिश्य प्रभोर्देशना ।
४५९