________________
भूपतिस्तद्भयान्नंष्ट्वा गतोऽन्यत्राऽऽकुलोऽवदत् । एताभिर्व्यन्तरीभिर्भो !, भाव्यं तन्नश्यत द्रुतम् ॥५७॥ तदा च सार्द्धं केनाऽपि दरिद्रस्तत्पिता बहिः । आगतोऽभूत्पुरा तत्र, तत्सोऽश्रौषीद्यथातथम् ॥५८॥ स एष स्वर्णपुरुषस्ता एताश्च सुता मम । आकृष्टा मान्त्रिकेणेति, ध्यात्वा निःस्वोऽवदन्नृपम् ॥५९॥ राजन् ! यदि त्वमेतासां, दत्से शासनपूर्वकम् । ग्रामं कमपि मां तत्र, प्रमाणं च करोषि चेत् ||६० ॥ तदा निवर्त्तयाम्येता इत्युक्ते तेन भूपतिः । शासने दापयामास, ग्रामं कमपि तत्क्षणात् ॥ ६१॥ ततश्च स दरिद्रोऽपि, गृहीत्वा निशि ताः सुताः । राज्ञा दत्ते तत्र ग्रामे, गत्वा ग्रामपतिस्त्वभूत् ॥६२॥ पश्चाच्च भूपतिर्दृष्ट्वा तं स्वर्णपुरुषं स्थिरम् । परित्यज्य सुतस्नेहं, तस्मिन् लोभी बभूव सः ॥६३॥ अदत्त्वा दर्शनं राजा, प्रतीहारान्न्यवेदयत् । योगिने यन्न स स्वर्णपुरुष: प्रापि कुत्रचित् ॥६४॥ ज्ञात्वा योगी च राजानं, लोभिनं स्वर्णपूरुषे । निर्माय कुमारं शक्त्या, तस्मादभाषयन्नृपम् ॥६५॥ योगिना निर्मितः सोऽथ, कुमारः प्राह भूपतिम् । तातेदं स्यात् क्वचिद्यद्भोः !, स्वर्णाऽर्थं त्यज्यते सुतः ॥६६॥ अपहृतोऽस्मि योगिन्या, मन्मांसैर्होमवाञ्छया । तत्सकाशादयं योगी, मामाच्छिद्य त्विहाऽऽनयत् ॥६७॥ आबाल्यादस्मि ते प्राणप्रियस्तत्तात ! मां कथम् ? । विलक्षयोगिना भूयो नीयमानमुपेक्षसे ? ॥६८॥ एतस्य स्वर्णपुरुषमेतस्यैव तदर्पय । यथा हि मामयं योगी, मुक्त्वा याति यथारुचि ॥६९॥
४४२
चन्द्रप्रभचरित्रे द्वितीयः परिच्छेदः ।