________________
[२५] निशाकरकरार्जुनं प्रतिदिशं विसर्पि द्युतिम् मुनीश्वरपुरस्कृतोऽयमधितिष्ठति स्मासनम्
मालिनी०
मुनिशर नवपृथ्वी हायने माघमासे विजितसुरपुरेऽस्मिन्पत्तने पूर्णिमायाम् कमल मुनिरसावाचार्यपट्टाजिषिक्तो
विजय कमलसूरिख्यातिमागाज्जवेन ॥ ७८ ॥
शिथिलितभवखेदा क्लृप्त चित्तप्रसादा कुमतितटविशीर्णा रत्नवैराग्यपूर्णा । विमलपदतरङ्गा निम्नतात्पर्यसङ्गा
निरगमदतिरम्या सूरिराजुक्तिगङ्गा ॥ ७९ ॥ |
शिखरिणी०
क्वचित्प्राज्यं दानं क्वचिदखिलजैनाशनमदः क्वचित्कीर्तेरशंसा क्वचिदपि जिनाचऽष्टदिवसी । क्वचिद्धर्षाल्लास्यं क्वचिदपि सती गायनरवः समावर्तिष्टत्थं ह्यनुपमतदीयोत्सववरः
||GO||