________________
५-श्रीमदुपाध्याय--श्रीमोहनविजयगुणाष्टकम् ।
शार्दूलविक्रीडित-वृत्ते-- श्रीमतीर्थकरस्य तत्त्वसुभगामाज्ञां सदंगीकृतां, संसारार्णवदुष्टकष्टहरणे श्रेष्ठां तरि योऽभजत् । मत्वा तामिह मातुषादिमुनिवत्तेरुस्त्वनेके जनाः, शिष्यो नन्दतु मोहनाद्यविजयो राजेन्द्रसूरेहि सः ॥१॥ श्रेयःसत्सरणौ निबद्धहृदयः पञ्चेन्द्रियारोधकः,
भव्यानां परमोपकारनिरतो रत्नत्रयाराधकः । सत्सम्यक्त्वसुधर्ममर्मपधगः सन्मार्गसंवर्द्धकः, शिष्यो नन्दतु मोहनाद्यविजयो राजेन्द्रसूरेहि सः ॥२॥ सद्वैराग्यमभूत्तदात्मनि सदा कष्टेऽपि नोद्वेगता, सर्वस्मिन्निह शत्रुमित्रनिवहे सद्भावना सर्वदा । कस्मिन्नागसि चाऽऽगते हि लघु मे मिथ्यास्तु त दुष्कृतं, शिष्यो नन्दतु मोहनाद्यविजयो राजेन्द्रसरेहि सः ॥३॥ व्याख्याने जनचित्तहर्पजननी यस्याऽभवद् भारती,
सद्भावस्फुटतातिसन्मधुरता शीघ्रं च भव्यंकरी । सदृष्टान्तविगर्भिता प्रतिपदे सन्मानिता सबुधैः, शिष्यो नन्दतु मोहनाद्यविजयो राजेन्द्रसूरेहि सः ॥४॥ यस्याऽऽसीत्प्रकृतिः सुशान्तसरला मूर्तिमनोहारिणी, कोपस्तु क्षणिको हृदन्तकरुणः सिद्धान्ततत्त्वे मतिः।