________________
४-जैनाचार्य-श्रीमद्विजयधनचन्द्रसूरीश्वर
गुरुगुणाष्टकम् ।
मालिनी-छन्दसि-- परहितविधिचन्द्रः तत्वबोधैकचन्द्रः,
भविजनवनचन्द्रः मोहविध्वंसचन्द्रः । सुगतिकुगतिचन्द्रः विश्वविख्यातचन्द्रः,
स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः ॥१॥ स्वपरसमयचन्द्रः सत्यविज्ञानचन्द्रः,
दलितकुमतचन्द्रः वादिवतालचन्द्रः । दुरिततिमिरचन्द्रः सत्कथाख्यानचन्द्रः,
स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः ॥२॥ प्रमुदितबुधचन्द्रः ज्ञानसद्दानचन्द्रः,
भुवनतिलकचन्द्रः धैर्यगांभीर्यचन्द्रः । गुणियतिमणिचन्द्रः सूरिगौण्यैकचन्द्रः, - स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः ॥३॥ शमदमसुमचन्द्रः त्यक्तगर्वाष्टचन्द्रः,
चरणकरणचन्द्रः पंचधाचारचन्द्रः । स्वगुणरमणचन्द्रः सिद्धिसौख्यार्थचन्द्रः,
स जयतु धनचन्द्रः शंप्रदः सूरिचन्द्रः ॥४॥