________________
३ - जैनाचार्य - श्रीमद्विजयराजेन्द्रसूरीश्वर -- गुरुगुणाष्टकम् ।
वसन्ततिलका-वृत्ते
नागेन्द्र चन्द्रदिव सेन्द्र महेन्द्रवन्द्यमाबालशीलवृतमर्चितमात्मशुद्धम् ।
राजेन्द्रसूरिगुरुमंत्र कलावपूर्व, सूर्योदये तमनिशं सुगुरुं हि वन्दे
ज्ञानक्रियासहितमेव हि यस्य शीलं, चारित्रपालनविधौ न च कोऽपि तुल्यः ।
सर्वासु दिक्षु धवला प्रसृता सुकीर्तिः, सूर्योदये तमनिशं सुगुरुं हि वन्दे
क्षान्त्यादिधर्मकरणे कटिबद्ध एव, प्राज्ञैर्जनैश्च विविधैर्नुतिमाप योऽलम् ।
पञ्चेन्द्रियेषु विषयेषु च वीतरागः, सूर्योदये- तमनिशं सुगुरुं हि वन्दे
सर्वेषु जन्तुषु हि यः करुणापरोऽभूत्, शास्त्रबोधनविधौ विगतप्रमादः ।
शिष्याँच सूरिगुणभारिण एव चक्रे, सूर्योदये तमनिशं सुगुरुं हि वन्दे
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11