________________
श्री सिंहश्रेष्ठिचरित्रम्
अन्वयः - इति क्रन्दन् नृपः सिंहनाम्नः मित्रस्य,
पुत्रस्य च विग्रहम् अग्नौ स्वं च शोकमहानले चिक्षेप ॥६९॥ तयोः सत्त्वातिरेकोक्त्या विबुधैर्बोधितस्ततः । धर्मकर्मठधीः प्राप स्वपुरं भूपुरन्दरः ॥ ६२॥ अन्वयः- तयोः सत्त्व-अतिरेक- उक्त्या विबुधैः बोधितः २धर्मकर्मठधी: भूपुरन्दरः ततः स्वपुरं प्राप ॥६२॥
२०१
वरं तत्याज यः प्राणान्न पुनः स्वीकृतं व्रतम् । स सिंह इव सेवध्वं जना दिग् विरतौ रतिम् ॥६३॥ अन्वयः- यः प्राणान् तत्याज पुनः स्वीकृतं वरं व्रतम्, न ( हे) जना ! स सिंह इव दिग्विरतौ रतिं सेवध्वम् ॥ ६३ ॥
इति
श्री सिंहश्रेष्ठिचरित्रं समाप्तम् ।
अभ्यासः
(१) सिंह श्रेष्ठी कस्यां नगर्यां वसति स्म ?
(२) सिंह श्रेष्ठी कतिपयानि भूषणानि धारयति स्म ? कानि कानि ? (३) भीमकुमाराय कस्या नगर्याः नृपतिः कन्यकां दातुं निश्चिकाय ? (४) सिंहश्रेष्ठिनः कति योजनानि गन्तुं नियम: आसीत् ?
(५) प्रयाणे स्थगिते सति अमात्याः राजकुमारं किम् अचीकथन् ?
९ विग्रहं = शरीरने । २. धर्मकर्मठधीः = धर्मे कर्मठधीः यस्य सः = धर्ममां सक्रिय बुद्धिवाळो । ३. भूपुरन्दरः=राजा ।