________________
सुलभचरित्राणि-२
२००
अन्वयः- ईदृग्विरुद्धबुद्धिः स व्याघ्रद्वीपि - सिंहादिजन्तुभिः सेव्यमानपादौ तौ महामुनी ददर्श ॥ ५६ ॥ प्रभाविनाविमौ शक्यौ न पराभवितुं बलात् । भक्त्यैव भाष्यावित्यन्तर्ध्यायन् राजा जगाम तौ ॥५७॥ अन्वयः - प्रभाविनौ इमौ बलात् पराभवितुं न शक्यौ, भक्त्या एव भाष्यौ इति अन्तः ध्यायन् राजा तौ
जगाम ॥५७॥
श्वापदैर्दत्तमार्ग तं मार्गन्तं वीक्षणान्यपि । नमन्तं चाटुमन्तं च नेक्षांचक्रतुरप्यम् ॥५८॥ अन्वयः - श्वापदैः दत्तमार्गं वीक्षणानि अपि मार्गन्तं नमन्तं, चाटुमन्तं अपि च तम् अमू न ईक्षाञ्चक्रतुः ॥५८॥ तौ तु मासोपवासान्ते स्तूयमानौ सुरासुरैः । शुद्धध्यानवशीभूतां भेजाते मुक्तिवल्लभाम् ॥५९॥ अन्वयः - मास-उपवासान्ते सुरासुरैः स्तूयमानौ तौ तु, शुद्ध-ध्यानवशीभूतां मुक्ति - वल्लभां भेजा ॥५९॥ न योजनशतादूर्ध्वं यामीति तव निश्चयः । असङ्ख्यैर्योजनैर्मित्र ! मां मुक्त्वा किमगाः शिवम् ? ॥६०॥ अन्वयः - (हे) मित्र ! योजनशताद् ऊर्ध्वं न यामि इति तव निश्चयः (अभूत्), (अपि तु) मां मुक्त्वा असङ्ख्यैः योजनैः शिवं किम् अगा: ? ॥६०॥
इति क्रन्दन्नृपः सिंहनाम्नो मित्रस्य विग्रहम् । पुत्रस्य चाग्नौ चिक्षेप स्वं च शोकमहानले ॥ ६१॥
१. द्वीपिन् = ही पडी । २. शुद्ध ध्यानवशीभूतां शुद्ध ध्यानेन वशीभूताम् शुद्ध ध्यानथी थी ।