________________
१९०
सुलभचरित्राणि-२ तथाहि-द्रङ्गप्रस्तारेष्वस्ति सर्वगुरुः पुरी । वासन्तीति श्रुता चित्रमवक्रगुणपूरिता ॥५॥ अन्वयः- तथाहि-'द्रङ्गप्रस्तारेषु सर्वगुरुः, चित्रम् अवक्रगुणपूरिता
___वासन्ती इति श्रुता पुरी अस्ति ॥५॥ कीर्तिपाल इति क्षोणिपालस्तस्यामजायत । यत्कीर्तिकन्याकेलीषु वियदकोऽपि सङ्कटः ॥६॥ अन्वयः- तस्यां कीर्तिपाल इति क्षोणिपालः अजायत यत् कीर्ति-कन्याकेलीषु वियद्-अङ्कः अपि सङ्कटः (समजनि) ॥६॥ रूपश्रीस्पर्शसंलुब्धैरिवाशेषैर्वृतो गुणैः । ननन्द नन्दनः श्रीमान्भीमाख्यस्तस्य भूपतेः ॥७॥ अन्वयः- ५रूपश्रीस्पर्शसंलुब्धैः इव अशेषैः गुणैः वृतः श्रीमान् भीमाख्यः तस्य भूपतेः नन्दनः ननन्द ॥७॥ तस्मात्पुत्रादपि स्वेभ्यः प्राणेभ्योऽप्यतिवल्लभः । तत्र मित्रं महीभर्तुः श्रेष्ठीन्दुः सिंह इत्यभूत् ॥८॥ अन्वयः- तस्मात् पुत्राद् अपि, स्वेभ्यः प्राणेभ्यः अपि अतिवल्लभः
तत्र महीभर्तुः ६ श्रेष्ठीन्दुः सिंह इति मित्रम् अभूत् ॥८॥ जिनभक्तिं जिनमतज्ञानं तद्धर्मनिर्मितिः । इति सारमलङ्कारत्रयं शश्वद्दधार सः ॥९॥ अन्वयः- जिनभक्तिं, जिनमतज्ञानं, तद्धर्मनिर्मितिः इति सारं
अलङ्कारत्रयं स शश्वत् दधार ॥९॥ १. द्रंग-देश । २. वियत्-आकाश । ३. अङ्क:- खोळो । ४. सङ्कटः सांकडूं। ५. रूपश्री रूपरूपी लक्ष्मी । ६. श्रेष्ठीन्दुः-श्रेष्ठिओमां चंद्र समान ।