________________
| श्री सिंहश्रेष्ठिचरित्रम् ।
(७)
दशदिक्क्लृप्तसञ्चारे सीमानुल्लङ्घनं पुनः । प्रथमं प्रथयन्ते दिग्विरत्याख्यं गुणवतम् ॥१॥ अन्वयः- पुनः दशदिक्क्लृप्तसञ्चारे सीमानुल्लङ्घनं ।
. दिग्-विरत्यिाख्यं प्रथम गुणव्रतं 'प्रथयन्ते ॥१॥ पापद्विपदुरुत्थानपातसंवर्तगर्तिका । इदं भाति व्रतं धर्मधात्रीशकनकासनम् ॥२॥ अन्वयः- पापद्विपेदुरुत्थानपातसंवर्त-गर्तिका धर्मग्धात्रीश
कनकासनम् इदम् व्रतम् इव भाति ॥२॥ उच्चैर्धर्मप्रसूनस्य शाखी दिग्विरतिव्रतम् । नृणां यदधिरूढानां न पापश्वापदाद्भयम् ॥३॥ अन्वयः- दिग्विरतिव्रतं धर्म प्रसूनस्य 'उच्चैः शाखी, यद् अधिरूढानां नृणां पापश्वापदाद् भयं न (वर्तते) ॥३॥ गतौ संकोचयत्येव यः स्वं दिग्विरतिव्रती । संसार-लङ्घनोत्तालफलारम्भः स सिंहवत् ॥४॥ अन्वयः- दिग्विरतिव्रती यः स्वं गतौ सङ्कोचयति एव, सः सिंहवत्
संसारोल्लङ्घनोत्तालफलारम्भः (भवति) ॥४॥
१. प्रथ् (प्रथयति-प्रथयते १०मो गण) प्रसिद्ध करवू । २. द्विप-(द्वाभ्यां पिबति द्विपः) हाथी । ३. धात्रीश-राजा । ४. प्रसून-पुष्प । ५. उच्चैः-श्रेष्ठ ।