________________
[१८] ॥ श्रीनर्मदासुदरीचरित्रम् ॥
नंदउ नमयसुन्दरी सा सुचिरं जीए पालिअं सीलं । गीहत्थणं पि काउं सहिया य विडंबणा विविहा ॥ १ ॥
व्याख्या - सा नर्मदासुन्दरी चिरकालं यावन्नन्दतु यया कृत्रिमं ग्रैथिल्यं 'कृत्वा विविधा नानाप्रकारा विडम्बनाः कदर्थनाः सहिताः निर्मलं शीलं च पालितम् ॥१॥
तस्या कथा चेत्थम्-वर्द्धमानाभिधनगरे सम्प्रतिनामा राजा, ऋषभसेनाभिधश्च सार्थवाहः परिवसति । तस्य भार्या वीरमती, तस्याः सहदेववीरदासाख्यौ द्वौ पुत्रौ ऋषिदत्ताभिधाना च पुत्री, क्रमेण सा 'युवजनस्पृहणीययौवनावस्थां प्राप्ता, बहुभिर्व्यापारिधनिकपुत्रैर्मार्गिताऽपि मिथ्यात्वतिमिरान्धभूतेभ्यस्तेभ्यः सा तत्पितृभ्यां न ददे ।
1
अन्यदा चन्द्रपुनगराद् रुद्रदत्ताभिधः कश्चित् श्रेष्ठी तन्नगरे समाययौ । अन्यदा तेन रुद्रदत्तेन असत्यमपि प्रमाणविदां दययेव व्योमाम्बुजोदाहरणं निजवदनाम्भोजेन सत्यीकुर्वन्ती निजप्रासादगवाक्षस्था सा ऋषिदत्ता दृष्टा, तां दृष्ट्वा मन्मथशरविद्धो रुद्रदत्तो गतचैतन्य' इव बभूव । ततस्तेन स्वकीयमित्राय कुबेरदत्ताय स्वकीयाभिप्रायं निवेद्य पृष्टम् भो मित्र ! रूपनिर्जितनिर्जराङ्गनेयं कस्य पुत्री ? तेनोक्तम् मित्र ! इयं जिनधर्मैकतत्परस्य ऋषभसेनसार्थवाहस्याङ्गजाऽस्ति किञ्च जैनं विना सोऽन्यस्मै कस्मैचिदपि निजाङ्गजां नैव दास्यति, तत् श्रुत्वा स कपटश्रावकीभूय नित्यं जिनपूजासाधुवन्दनाssवश्यकादिक्रियापरः समजनि । अथ ऋषभसेनस्तं जिनधर्मपरायणं निजसाधर्मिकं ज्ञात्वा तस्मै निजतनयां ददौ । अथायं रुद्रदत्तः श्वसुरमापृच्छय ऋषिदत्तामादाय चन्द्रपुरनगरे समायातः त्यक्तश्च तेन तत्र जिनधर्मः । क्रमेण
ऋषिदत्ताऽपि भर्तृस्नेहतः संसर्गदोषेण जिनधर्मे शिथिला जाता । क्रमेणैषा
"