________________
४०
वर्गचूलिका मूषकादिनाऽभिभूता स्वरक्षणेऽप्यक्षमैषेत्यादिवचनतोऽपवदन्तः, गर्हमाणाः - लोकसमक्षमप्युक्तकुतर्कोपन्यासपुरस्सरमवगणयन्तः, चैत्यतीर्थाणि-जिनप्रतिमाजिनालयानि, जिनबिम्बानि शत्रुञ्ज-यादितीर्थानि वा, साधुं साध्वीं चोत्थापयिष्यन्ति, सर्वेऽप्येते दम्भमात्रपर्यवसिता इत्याधुक्तेरपलपिष्यन्तीत्यर्थः ।
न च ते ज्ञास्यन्ति, यन् नामादित्रयमेव भावभगवत्ताद्रूप्यधी निबन्धनम्, एतच्च सिद्धान्तसिद्धम्, अनुभवगम्यं च, अतो ये स्थापनानिक्षेपस्यानादरं कुर्वन्ति, भावमेव वाङ्मात्रतः पुरस्कुर्वन्ति, ते व्यायासमेव विदधन्ति, दर्पणाश्रयात्मीयप्रतिबिम्बनिध्यानार्थिजात्यन्धवत्, उक्तञ्च - नामादित्रयमेव भावभगवत्ताद्रूप्यधीकारणम्, शास्त्रात् स्वानुभवाच्च शुद्धहृदयैरिष्टं च दृष्टं मुहुः । तेनार्हत्प्रतिमामनादृतवतां भावं पुरस्कुर्वता - मन्धानामिव दर्पणे निजमुखालोकार्थिनां का मतिः - इति (प्रतिमाशतके २)।
नामादित्रये हि हृदयस्थिते सति भगवान् पुर इव परिस्फुरति, हृदयमिवानुप्रविशति, मधुरालापमिवानुवदति, सर्वाङ्गीणमिवानुभवति, तन्मयीभावमिवापद्यते, तेन सर्वकल्याणसिद्धिः ।
समर्थिता च जिनप्रतिमा व्याख्याप्रज्ञप्ति - राजप्रश्नीय - जीवाभिगम - ज्ञाताधर्मकथाप्रभृतिभिरागमैरतस्तदुरीकार एव