________________
२२
वर्गचूलिका - वैरूप्यप्रयोजकदाढादीर्घत्वदूषिताः, लम्बोदराः - बीभत्सतुन्दधराः, गुलिताः - मथिताः, गवलाः - महिषशृङ्गानि, बहिस्ताद्विच्छायत्वसम्भवान्मथितत्वेन छिन्नानां कान्त्यतिशयस्स्यादिति विशिष्टग्रहणम्, तेषां राशिः - प्रकरः, तस्य सन्निभाः - सदृशाः, अत्यन्तं कालवर्णोपेततया अमनोज्ञा इत्यर्थः, अत एवादर्शनीयाः - दर्शनमात्रतोऽप्यप्रीत्युत्पादकत्वेन तदयोग्याः, दृष्टमात्राश्च जनानां जुगुप्सामुत्पादयन्तः, एतेन तेषामतिशयकुत्सितत्वमावेदितम्, स्वकर्मकुशलाश्चापि भविष्यन्ति, अनेन तेषां कर्मतोऽपि चाण्डालत्वमावेदितम् । ___तए णं ते दुवीसंसोवागा कम्मकुसलत्तणेणं विण्णाणगुणेण य उवाहणाइकम्मउप्पायणेण बहुअयरं दविणजायं एगओ मिलइस्संति । तं दव्यमाजीवियट्ठाए उवभुंजेमाणा विहरिस्संति । ___ ततोऽनन्तरं ते द्वाविंशतिश्वपाकाः कर्मकुशलत्वेन विज्ञानगुणेन चोपनहादिकर्मोत्पादनेन - चर्ममयपादुकादिनिर्मित्यनुष्ठानेन, बहुकतरम् - अतिप्रभूतम्, द्रव्यजातम् - पादुकादिविक्रयोपार्जितं धनम्, एकतो मीलिष्यन्ति - अमुकत्र स्थाने सञ्चयविषयीकरिष्यन्ति । तद् द्रव्यमाजीविकार्थमुपभुञ्जाना विहरिष्यन्ति । १. ख.ग.छ - ०सकसल० । २. ख - ०णं गुणे० ।