________________
१४
वर्गचूलिका
ततोऽपि संरोहयति व्रणमिति संरोहि, तेनौषधेन समाधिं जनयति व्रणसंरोहणेन स्वास्थ्यमापादयतीत्यर्थः ।
अग्निदत्त ! ततोऽनन्तरं सा कामलता गणिका स्तनमध्यकृष्टैस्तैर्द्वाविंशतिकीटकैः, सप्तम्यर्थे तृतीया, कृमीषु समाकृष्टेषु सत्स्वित्यर्थः, उत्पन्नसमाधिका - पीडोपशमेन सञ्जातस्वास्थ्या, अत एव ज्ञातसुखा अनुभूतसुखसंवेदना, तं वैद्यं विपुलेनाशनपानखादिमस्वादिमवस्त्रमाल्यालङ्कारैश्च जीवितार्हप्रीतिदानेन च प्रतोष्य सन्तोषप्रकर्षभाजनीकृत्य विसर्जयति ।
तए णं सा कामलया गणिया तेसु क्किमीकिडगेसुं पुव्वबद्धाणुराया सकारुणं चिंतेइ मा इमेसिं ववरोवणं मम हत्थाओ भविस्सइ ति गहाय म(मि)हिलाए पुरीए खाइयमज्झवडियद्ध सुक्क - सुणयकट्टगंमि उम्मुयइ ।
ततोऽनन्तरं सा कामलता गणिका तेषु कृमिकीटप्राग्जन्मसत्कस्नेहप्रतिबद्धा सती
केषु पूर्वबद्धानुरागा
१. क सकरु० । २. ख. ग
• खाइयमज्झवडियद्ध । त
-
-
-
०स्सइउ । ३. क.ख.ग.छ.ज.झ.ट. ठ ड ढ ध न खाइयामज्झठियद्धं । थ
बाइमज्झवडियद्ध।