________________
2
वर्गचूलिका पडिया य अंधकूवे सब्वेऽदटूण मच्चूणा गहिया । अन्नन्नसत्थपहया चिंतेइ मुणी सकारणं ॥९॥
ते सर्वेऽपि मदान्धतयाऽदृष्ट्वा -गमनमार्गमनालोच्य, अन्धकूपे - अन्धकारमये गभीरतरेऽवटे, च पतिताः, तस्मिन्नपि, अन्योऽन्यशस्त्रप्रहताः - सङ्कटास्पदपतनेन मत्ततया च परस्परप्रहरणप्रहारविधुरितविग्रहाः, मृत्युना गृहीताः - कालधर्ममुपगताः ।
तदेतदृष्ट्वाऽग्निदत्तो मुनिः सकारणं चिन्तयति, दृष्टमसमञ्जसं तद्धेतुविमर्शपुरस्सरं विचारयतीत्यर्थः, सकारुण्यमिति पाठे प्रशमप्रकर्षतोऽपराधिष्वप्यनुकम्पासहितमित्यर्थः। ॥९॥ यच्चिन्तयति तदेवाह - हा हा अकालसमए वरायया जीवि जिणधम्मकरचित्ता कत्थवि पत्ता मुणई नाणी ॥१०॥
हा हा इत्यत्यन्तखेदे, जिनधर्मकरत्यक्ताः - जिनकथितधर्मरूपहस्तावलम्बवर्जिता जिनधर्मतेजोविकला वा, क्तान्तपरनिपातः प्राकृतत्वात्, अत एव वराककाः -
१. ग - मच्छ० । २. क.च - अन्नुन्नं । छ - अन्नुन्नु । ३. च - सत्था। ४. ड.ध - सकारूणं । त - शकारुणो । ५. ग.च.छ - वुच्छे० । ६. त - धम्मखरचत्ता । ठ.द - धम्मकरचिंता ।।