________________
वर्गचूलिका वीराओ वीसमे वरिसे सिरिसुहम्मसामिनिब्वाणं । तत्तो चुयालिसे सिद्धो जंबु चरिमनाणी ॥२॥ ___ वीरात् - परिनिर्वृतात् सतो विंशतितमे वर्षे श्रीसुधर्मस्वामिनः पञ्चमगणभृतो निर्वाणं बभूव, तथा चोक्तम् - आत्तं पञ्चाशदब्देन सुधर्मस्वामिना व्रतम् । त्रिशदब्दीमथाकारि शुश्रूषा चरमार्हतः ॥ मोक्षं गते महावीरे सुधर्मा गणभृद्वरः । छद्मस्थो द्वादशाब्दानि तस्थौ तीर्थं प्रवर्तयन् ॥ ततश्च द्वानवत्यब्दीप्रान्ते सम्प्राप्तकेवलः । आष्टाब्दी विजहारोर्वी भव्यसत्त्वान् प्रबोधयन् ॥ प्राप्ते निर्वाणसमये पूर्णवर्षशतायुषा । सुधर्मस्वामिनाऽस्थापि जम्बूस्वामी गणाधिपः - इति (परिशिष्टपर्वणि ४ / ५६-५९) ।।
ततः - श्रीसुधर्मस्वामिनिर्वाणादनन्तरं चत्वारिंशत्तमे वत्सरे चरमज्ञानी - भरतक्षेत्रेऽन्तिमः केवलज्ञानी, जम्बूः - काश्यपगोत्रीयः श्रीजम्बूस्वामी, सिद्धः - मोक्षङ्गतः, श्रीवीरनिर्वाणाच्चतुःषष्टितमे संवत्सरे परिनिर्वृत इत्यर्थः, उक्तञ्च-बारसवरिसेहिँ गोअमो सिद्धो वीराओ वीसहिं सुहम्मो। चउसट्ठीए जम्बू - इति ॥२॥
१. ख.ग.च.छ - ०हम्मसा० । शेषेषु - ०हम्मासा०