________________
३४ ]
परिशिष्टानि
परिशिष्ट १-वीतरागस्तोत्राष्टमप्रकाशः । सत्त्वस्यकान्तनित्यत्वे कृतनाशाऽकृतागमौ । स्यातामेकान्तनाशेऽपि कृतनाशाऽकृतागमो ॥१॥ आत्मन्येकान्तनित्ये स्यात् न भोगः सुखदुःखयोः । एकान्ताऽनित्यरूपेऽपि न भोगः सुखदुःखयोः ॥२॥ पुण्यपापे पन्धमोक्षौ, न नित्यकान्तदर्शने । पुण्यपापे पन्धमोक्षौ, नाऽनित्यैकान्तदर्शने ॥३॥ क्रमाऽक्रमाभ्यां नित्याना, युज्यतेऽर्थक्रिया न हि । एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥४॥ यदा तु नित्यानित्यत्वरूपता वस्तुनो भवेत् । यथात्थ भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ गुडो हि. कफहेतुः स्यानागरं पित्तकारणम् । द्वयात्मनि न दोषोऽस्ति गुडनागरभेषजे ॥६॥ द्वयं विरुद्ध नैकत्राऽसत्प्रमाणप्रसिद्धितः ।। विरुद्धवर्णयोगो हि दृष्टो मेचकवस्तुषु ॥७॥ विज्ञानस्यैकमाकार नानाकारकरम्बितम् । इच्छंस्तथागतः प्राज्ञो नानेकान्तं प्रतिक्षिपेत् ॥८॥ चित्रमेकमनेक च रूपं प्रामाणिकं वदन् । योगो वैशेषिको वाऽपि नानेकान्तं प्रतिक्षिपेत् ॥६॥ इच्छन् प्रधानं सत्वाद्यैर्विरुडेंगुम्फितं गुणैः । सांख्यः संख्यावतां मुख्यो नानेकान्तं प्रतिक्षिपेत् ॥१०॥ विमतिः सम्मतिर्वापि चार्वाकस्य न मृग्यते । परलोकात्ममोक्षेष्ठ यस्य मुह्यति शेमुषो ॥११।। तेनोत्पादव्ययस्थेमसंभिन्नं गोरसादिवत् । त्वदुपज्ञं कृतधियः प्रपन्ना वस्तु वस्तुसत् ॥१२॥
[ सम्पूर्णः]