________________
११२
बृहत्स्याहादरहस्ये
विषयितया भोगान्यमानसप्रतिबन्धकतावच्छेदकीभूतसुखदुःखवृत्तिजातिविशेषवदन्यमानसत्वादिकमेव मानसाऽन्यसामग्रीप्रतिबध्यतावच्छेदकं, सुखदुःरूवृत्तिजातिविशेषवत्प्रतिबध्यतावच्छेदकमपीदमेव, तेन न तत्प्रविष्टतया भोगत्वसिद्धिरिति वाच्यम्, अनया दिशा साक्षात् सुखादिवृत्तिजातिः प्रतिबध्यतावच्छेदककोटौ प्रवेश्या, साक्षात्मानसवृत्तिजातिर्वा स्वसमवायिलौकिकविषयतासम्बन्धेन प्रतिबन्धकतावच्छेदकेकोटौ प्रवेश्येत्यत्र विनिगमकाऽभावात्" इति, तन्मते तज्जात्यवच्छिन्नस्यैव भोगपदेन बोधनात् 'सुखदुःखयोरि'त्यस्य न पौनरुक्त्यम् ।
[आत्मनित्यत्वपक्षे सुखदुखभोगानुपपत्तिः] अथ प्रकृतयुक्तीः प्रस्तुमः । एकान्तनित्यो भवन्नात्मा सुखदुःखे युगपद् भुञ्जीयात्, क्रमेण वा ? नायो, विरोधात् । न द्वितीयः, स्वभावभेदेन सर्वथानित्यत्वहानेः । अथ यथा प्रदीपो घटादीन् प्रकाशयन्नपि न घटादिस्वभावः, तथा सुखदुःखे भुञ्जानोऽपि जीवो न तत्स्वभावः, इति क्रमिकतद्भोगपक्षेऽपि न स्वभावभेद इति चेत् ? न, स्वभावो हि स्वद्रव्यगुणपर्यायाऽनुगतं स्वरूपास्तित्वं, तच्च सादृश्याऽस्तित्वेनैकीभवतोऽप्यन्यस्माद्भेदप्रतीतिमाधत्ते । तथा चात्मनः स्वभावभूतयोः सुखदुःखयोर्गुणयोः क्रमभोगे विभिन्नकालभोगत्वरूपविरुद्धधर्माऽध्यासात् स्वभावभेदः कस्य पाणिना पिधेयः ! प्रदीपस्य घटादिस्तु स्वद्रव्याद्यन्यतराऽन्यत्वान्न स्वभावः । घटपटादिक्रमप्रकाशमाश्रित्य च तेनाऽपि स्वभावभेदः समाश्रयणीय एव ।
न च गुणगुण्यादीनां स्वभावेन न सम्बन्धित्वं किन्तु समवायेनैवेति वाच्यं, तद्वति तवृत्तीनामेकसम्बन्धस्यैवोचित्यात् । न चैवं रक्तादीनां स्फटिकस्वभावतापत्तिर्वस्तुतस्तेषां तदवृत्तित्वात् परम्परया तवृत्तित्वेन तदशुद्धस्वभावत्वस्य चेष्टत्वात् । अथैवमपि ध्वंसाऽप्रतियोगित्वरूपमात्मनः सर्वथा नित्यत्वमक्षतमेवेति चेत् ? न, सुखादेरात्मस्वभावत्वे तद्ध्वंसप्रतियोगित्वस्याऽऽत्मन्यपि पर्यवसानात् । यदि नाम ध्वंसः कश्चिदतिरिच्येत तदैव परः पर्यनुजीत यत् सुखादेरेव ध्वंसो न पुनस्तदाश्रयस्येति । वयं पुनरन्ततः सुखाद्युत्तरत्वविशिष्टमात्मानमेव तन्नाशमभ्युपेमः । तदुत्तरत्वं च यद्रूपेण तद्रूपवदभिन्नत्वं च ध्वंसप्रतियोगित्वमिति । युक्तं चैतत् - 'अहं सुखवानभूवमि'त्यादिप्रतीतेः सुखवति ध्वंसप्रतियोगित्वोल्लेखित्वात् ।
__ [आत्माऽनित्यत्वपक्षे दूषणेम्] अथाऽनित्यत्वपक्षेऽपि दोषमाविर्भावयन्ति स्म --'एकान्तानित्यरूपेऽपीति-निगदसिद्धमिदम् । अयम्भावः-एकान्ताऽनित्यस्य सत आत्मनः सुखदुःखयोर्युगपद्भोगो विरुद्धत्वादेव नाभिमतः । क्रमभोगपक्षे तु क्षणिकत्वपक्षो बालतरलाक्षीकटाक्षतरलस्तत्क्षणध्वंसाधिकरणसमयस्यैव क्रमपदार्थत्वात् । क्षणिकस्य तु जातमात्रस्यैव विनाशादुत्तरक्षणाऽननुवृत्तेः । एतेन 'प्रवृत्तिविज्ञानोपादानमालयविज्ञानसन्तान एवात्मा, स च पूर्वर्वविज्ञानोपादेयः प्रतिसमयोत्पदिष्णु