________________
बृहत्स्याद्वादरहस्ये द्धमनिष्टताऽवच्छेदकं विजातीयसुखत्वमेव वा काम्यतावच्छेदकमिति न दोष इति वाच्यं, तथापि 'नित्यं विज्ञानमानन्दं ब्रह्मे(तै०आ०)ति श्रुत्या नित्यसुखादिनैव सममभेदबोधात्तस्य नित्यत्वस्यैवौचित्यात् । अनित्यसुखादेरविद्यानिबन्धनत्वेनाऽऽत्मानुपादेयत्वात् । न च सुखत्वावच्छिन्नं प्रति धर्मत्वेन हेतुत्वान्नित्यसुखाऽनुपपत्तिः, उक्तश्रुतिबलान्नित्यसुखसिद्धौ जन्यसुखत्वाऽवच्छिन्नं प्रत्येव तद्धेतुत्वात् ।
वस्तुतो विजातीयधर्मत्वेन विजातीयसुखत्वावच्छिन्नहेतुत्वान्न धर्मत्वेन सुखत्वावच्छिन्नहेतुता । अथ श्रुतिबोधिततत्तत्कर्मणामेव स्वजन्याऽदृष्टसम्बन्धेन विजातीयसुखत्वाद्यवच्छिन्ने हेतुता युक्ता न तु प्रागुक्ता विजातीयसुखं प्रति विजातीयधर्मतत्कर्मणोर्विजातीयधर्म प्रति तत्कर्मणश्च हेतुतात्रयकल्पने गौरवादिति चेत् ? न, लाघवेनोक्तहेतुत्वे क्लृप्ते फलमुखगौरवस्याऽदोषत्वात् । विजातीयाऽदृष्टद्वारा तत्तत्कर्मणो हेतुत्वमित्यपि केचित् । न चादृष्टवैजात्ये मानाऽभावः, 'मयाऽश्वमेधः कृत' इत्यादिकीर्तननाश्यतावच्छेदकत्वेनैव तत्सिद्धेः । न हि तत्तददृष्टत्वं तन्नाश्यतावच्छेदकं, गौरवात् । न च स्वाश्रयजन्यताविशेषसम्बन्धेनाश्वमेधत्वादिघटितं तथा, स्वाश्रयजनकताविशेषसम्बन्धेन विजातीयसुखत्वघटितेन विनिगमनाविरहप्रसङ्गात् । ननु तवापि 'मयाश्वमेधवाजपेयो कृतौ, मया वाजपेयज्योतिष्टोमो कृतावि'त्यादिकीर्तननाश्यतावच्छेदकजातिसिद्धौ साङ्कर्यमिति चेत् ? न, प्रत्येकनाश्यतावच्छेदकावच्छिन्नयोरेवोक्तसमूहालम्बननाश्यत्वात् , अन्यथा तज्जातीयनाशकात्ततः प्रत्येकनाश्यनाशापत्तेर्दुर्निवारत्वात् ।
इत्थञ्च “समूहालम्बनहरिगङ्गास्मरणजन्याऽपूर्वस्य गङ्गास्मृतिकीर्तनान्नाशे हरिस्मृतेरपि फलं न स्यात् । तज्जन्याऽपूर्वयोरेकस्य नाशेऽप्यपरस्य सत्त्वे गङ्गास्मृतेरपि फलं स्यादि"ति परास्तं, स्वकीर्तननाश्यतावच्छेदकजातिमदपूर्वसम्बन्धेन गङ्गास्मृतेरसत्त्वे तत्फलोत्पत्त्यसम्भवात् । यत्तु कीर्तनस्याऽदृष्टनाशकत्वे गौरवादुक्कदोषोद्धाराय च कीर्तनाऽभाववत्कर्मत्वेनैव हेतुता युक्तेति, तन्न, कर्मवत्कीर्तनाभावत्वेन हेतुत्वे विनिगमनाविरहात् । अथ 'ज्योतिष्टोमेन स्वर्गकामो यजेते त्यादिना ज्योतिष्टोमादेः श्रुत्या स्वर्गसाधनत्वस्यैव बोधान्न तस्योक्तहेतुतावच्छेदकत्वमिति चेत ? तर्हि 'धर्मः क्षरति कीर्तनादि'त्यादिना कीर्तनादेर्धर्मनाशकत्वस्यैव बोधात्तथात्वं किं न रोचयेः ? अन्यथा तत्र विषयत्वसामानाधिकरण्योभयसम्बन्धेन कीर्तनाभाववत्कर्मत्वेनाऽपूर्व प्रत्येव हेतुताऽस्तु किमनन्तपण्डाऽपूर्वकल्पनयेति दिग् ॥
किञ्च, भावकार्यत्वावच्छिन्नं प्रत्युपादानप्रत्यक्षत्वेनैव कारणत्वाल्लाघवाजगद्धेतुतया सिध्यन्नित्योपादानप्रत्यक्षरूपादीश्वराज्जोवानामपि 'एकमेवाऽद्वितीयं ब्रह्मे(छा०उप०-६।२।१)'त्यादि श्रुत्याऽभेदबोधादात्मनो नित्यत्वमेव यौक्तिकम् । एतेनाऽऽनन्दशब्दस्याऽजहत्पुल्लिंगतया नपुंसकत्वे लिङ्गव्यत्ययकल्पनमप्रमाणिकमिति निरस्तं, नित्यज्ञानाऽभिन्नाऽऽनन्दाऽभेदस्यैवाऽत्मनि यौक्तिकत्वात् । न च 'आनन्दं ब्रह्मणो रूपं, तच्च मोक्षे प्रतिष्ठितमिति भेदबोधकश्रुतिसद्भावा