________________
१०८
बृहत्स्याद्वादरहस्ये नाशादन्यथा व्यभिचारादिति प्राञ्चः। तन्न, तयोः कारणतावच्छेदकसम्बन्धभेदेन कारणताभेदाऽऽवश्यकत्वात् , कपालसंयोगादेरपि किञ्चित्कार्य प्रति निमित्तत्वात् , तत्तद्र्व्यनिमित्तेतरत्वदानेऽननुगमाच्च । न च द्रव्यनाशत्वावच्छिन्नं प्रति स्वप्रतियोगिनिमित्तेतरकारणप्रतियोगिकत्वसम्बन्धेन नाशवन्नाशत्वेन हेतुत्वे नाऽननुगम इति वाच्यं, तथापि द्यणुकादिनाशं प्रति परमाणुव्यसंयोगादीनां विशिष्याऽन्वयव्यतिरेकानुविधानात्, सामान्यत एव द्रव्यनाशत्वावच्छिन्नं प्रति विजातीयसंयोगनाशत्वेन कारणत्वकल्पनौचित्यात् । कारणीभूतनाशप्रतियोगिसंयोगे वैजात्यञ्च जन्यद्रव्यजनकतयैव सिद्धं निवेश्यम् । न चाऽवश्यस्वीकार्यघटादिजनकतावच्छेदककपालसंयोगादिनिष्टजातिविशेषैरेवोपपत्तौ सामान्यतो जन्यद्रव्यजनकतावच्छेदकजातो मानाऽभाव इति वाच्यं, संयोमविशेषेण द्रव्यान्तरं जनयत्सु कपालेषु कपालत्वस्यैवाऽस्वीकारात् ।
घ्यणुकादिलक्षणकिञ्चिदवयवापगमात् खण्डकपालोत्पत्त्योत्तरकालं ततो घटजननसम्भवात् घटत्वावच्छिन्नं प्रति सामान्यतः कपालत्वेन हेतुत्वे बाधकाभावात् द्रव्यान्तरजनककपाले घटप्रागभावाभावादेव न घटोत्पत्ति'रित्यन्ये । 'अस्तु घटादिजनकतावच्छेदको जातिविशेषः संयोगे, तथापि जल-ज्वलन-पवनादिजनकतावच्छेदकजातौ मानाऽभावस्तादृश नात्याश्रय जलादिसंयोगे सति जलाद्युत्पत्तौ विलम्बाऽभावादि'त्यपरे । न च संयोगकर्मजन्यतावच्छेदक जातिभ्यामभिघातत्वनोदनात्वाभ्यां च परापरभावानुपपत्तेस्तत्र मानाऽभावः, तासामेतयाप्यत्वोपगमात् । न च विनिगमकाभावः द्रव्यजनकतावच्छेदकजाते!दनात्वादिव्याप्यत्वे हि तदाश्रयजन्यद्रव्ये जातिविशेषो वाच्यः, सोऽपि विशेषो घटत्व -पटत्वादिना संकरभिया तद्याप्यः स्वीकार्यः, इत्यनन्त कार्यकारणभावापत्तेरभिघातत्वाऽऽदीनां नानात्वे च कर्मादिनिष्टतज्जन्यतावच्छेदकजातिचतुष्टयमात्रस्यैव कल्पनादित्याहुः ।
अथ कपालादिसमवेतरूपनाशत्वादिकं कपालादिसमवेतगुणनाशत्वादिकं वा न कपालनाशादिजन्यतावच्छेदकं पाकविभागादितोऽपि रूपसंयोगादीनां नाशेन व्यभिचारात् । किन्तु कपालनाशविशिष्ट प्रतियोगिकनाशत्वं तथा, वैशिष्ट्यञ्च स्वप्रतियोगिसमवेतत्वकालिकोभयसम्बन्धेन बोध्यं, तेन कपालनाशाऽप्रतियोगिन्यपि कालिकेन कपालनाशविशिष्टतन्तुरूपनाशस्य कपालनाशं विनापि च विभागादितः स्वप्रतियोगिसमवेतसंयोगादिनाशस्य जायमानत्वेऽपि न क्षतिः । वस्तुतः प्रतियोगितया स्वप्रतियोगिसमवेतत्वस्वाधिकरणत्वोभयसम्बन्धेन नाशवन्नाशत्वावच्छिन्नं प्रति स्वप्रतियोयोगिसमवेतत्वसम्बन्धेन द्रव्यनाशत्वेनैव हेतुत्वं, न कपालनाशत्वादिना, गौरवात् । इति कपालादिसमवेतरूपादिनाशवद्घटादिनाशोऽपि स भवायिकारणनाशादेवेति चेत् ? न, सामान्यतोऽसमवायिकारणनाशस्य हेतुत्वे क्लुप्ते कपालादिनाशोत्तरमसमवायिकारणनाशे सत्येव घटादिनाश इति कल्पनान्निरधिकरणस्य घटादेः क्षणमात्रमिव क्षणद्वयमप्यवस्थितौ बाघकाभावात् ।