________________
१०४
बृहत्स्याद्वादरहस्ये अत्राहु:-उपादानप्रत्यक्षस्योक्तसम्बन्धेन हेतुत्वेन कलुप्तेनैवोपपत्तावतिरिक्तकल्पनाऽनौचित्यम् । अतिरिक्तप्रागभावतत्कारणत्वानन्ततत्सम्बन्धादिकल्पने गौरवादिति । अस्तु वावच्छिन्नसमवेतत्वेन तत्तद्वयक्तिविशिष्टत्वावच्छिन्ने तत्तद्वयक्तित्वेन, तत्क्षणवृत्तिकायें च तत्पूर्वक्षणत्वेन हेतुत्वादुक्तदोषोद्धारः, इति न प्रागभावसिद्धिः ।
केचित्त-"तत्तत्पटादिहेतुः कश्चिदनादिभाव एवाऽस्तु तस्याऽभावत्वे प्रतियोग्यनुयोगिभावकल्पने गोरवात् । न चानादेर्भावस्य नाशाऽनुपपत्तिस्तादृशाभावस्येव तादृशभावस्यापि नाशसम्भवात् । तन्नाशश्च पटादिरूपो वाऽतिरिक्तो वेत्यन्यदेतत् । न च ध्वंसप्रतियोगित्वे सति सत्त्वस्य समवेतत्वस्य वा द्रव्यजन्यतावच्छेदकत्वात्तस्याऽनादित्वानुपपत्तिः, जन्याभावप्रतियोगित्वापेक्षया लघुनो जन्यत्वस्यैव तत्कार्यतावच्छेदकताघट कत्वात् । 'ध्वंसत्वमस्खण्डोपाधि'रिति चेत् ? जन्यत्वमेव कि नेदृशम् ? एतेन जन्यभावस्य नाशं प्रति हेतुत्वात्कार्यघटितरूपेणान्यथासिद्धर्जन्यत्वस्य ध्वंसप्रतियोगित्वरूपस्याऽनिवेश्यतया प्रागभावप्रतियोगित्वरूपस्यैव तस्य निवेशात्प्रागभावतदभावत्वसिद्धिरि'त्यपास्तम्, अतिरिक्तभावयोगित्वरूपतन्निवेशौचित्याच्चे"-त्याहुः । तन्न, अतिरिक्तभावयोगित्वस्य तज्जन्यत्वात्मकस्य प्रतियोगित्वाऽपेक्षया गुरुत्वात् । 'निरूपकत्वरूपस्याप्रतियोगित्वतुल्यत्वे भावत्वाऽभावत्वाभ्यां विनिगमनाविरहेण तस्याऽनिर्वाच्यत्वमेवास्त्विति चेत् ! न, तत्र द्रव्यादिसप्तकभेदकल्पनाऽनौचित्यात् ।
महोपाध्यायस्तु-'नानामिथ्याज्ञानवासनानामदृष्टजनकत्वकल्पनमु[म]पेक्ष्याऽऽद्यतत्त्वज्ञानप्रागभावस्य तद्वेतुत्वौचित्यात्प्रागभावसिद्धिरित्याह । तत्रायं महतोऽमिप्रायः, आद्यत्वं हि न स्वसमानाधिकरणतत्त्वज्ञानप्रागभावनाशाऽवृत्तित्वं येन स्वत्वस्य नानात्वेन पुरुषभेदेन कारणता भिद्येत, किन्तु सामानाधिकरण्यकालिकोभयसम्बन्धेन तत्त्वज्ञाननाशविशिष्टान्यत्वमनुगतमेव तत् । न चोक्तनानावासनासु तत्त्वज्ञाननाश्यतावच्छेदकत या तत्त्वज्ञानाऽऽहित- दृढतरवासनानाश्यतावच्छेदकतया वा सिद्धया जात्यैवाऽदृष्टहेतुत्वमस्तु, अवच्छेदकलाघवादिति वाच्यम्, तादृशजातितन्नाशकत्वादिकल्पने गौरवात् ।
नन्वेवमस्तु तत्वज्ञानं तत्र प्रतिबन्धकमेवेति चेत् ? न, तत्त्वज्ञानकालेऽपि घटावच्छेदेन तदभावसत्त्वात् , प्रतियोगिव्यधिकरणतदभावस्य हेतुत्वे गौरवात् । ननु तत्कालावच्छिन्नाऽदृष्टावच्छिन्नविशेष्यतयेश्वरीयाणां हेतुत्वेनैवाऽनतिप्रसंग इति चेत् ? न, एवं सत्येककारणपरिशेषापातात् । अदृष्टं प्रत्यदृष्टप्रागभावहेतुतयैवाऽनतिप्रसंग इत्यप्याहुः ।
___ अदृष्टस्यानतिरेके तु यत्किञ्चिदेतत् । वेगादिक्रियया शाखाद्यवच्छेदेनैव संयोगजननात्समानावच्छेदकत्वप्रत्यासत्या तन्नियामकप्रागभावसिद्धिर्नानावच्छेदकानां विशिष्य हेतुत्वे गौरवात् । 'एकशाखाऽवच्छेदेन नानासंयोगेषु नानाप्रागभावानां बहूनां हेतुत्वे गौरवात् शाखाधव