________________
१०२
बृहत्स्याद्वादरस्ये
प्यस्ति हि तत्तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिता ॥" - इत्यपि कपिचेष्टितप्रायं परेषां प्रलपितम् । क्वचिदसत्त्वेन वस्तुनोऽसत्त्वे मृदद्रव्येऽसतोऽन्द्रव्यस्याऽसत्त्वापत्तेः । 'तत्रैवाऽसतस्तत्रैव सत्त्वं निर्बीजमिति चेत् ? न हेतुसमाजस्य तद्वीजत्वात् । न च द्रव्यतया सदसदेव कार्यं प्राक् नाप्य ( ( प ) सत्कार्यवादे कार्योत्पत्तेः प्राक्कार्योपलम्भापत्तिः, येन रूपेण सत्वं तेन रूपेणोपलम्भस्येष्टत्वात् । न चैवं विषयस्य नानारूपभेदेन नानाहेतुत्वकल्पने गौरवं, योग्यतयैव प्रतिनियमात्तद्धेतुत्वाऽकल्पनात् । नाप्येदैकत्र सत्त्वाऽसत्त्वयोर्विरोधो, रूपभेदेन तत्समावेशात् ।
अथैवं घटाभावदशायां भूतले घटस्यापि सदसत्त्वापत्तिरिति चेत् ? न, भूतलत्वेन घटस - त्वस्य दुर्वचत्वात् तादृशरूपान्तरस्य च दुर्लभत्वात् । अथ यस्मिन् सत्यप्रिमक्षणे यस्य सवं यद्व्यतिरेके चाऽसत्त्वं तत्तस्य जन्यम्, न चेदं सदसत्कार्यवादे सम्भवि हेतुसत्त्वे कार्यसत्त्वसम्भवेऽपि तद्व्यतिरेकेण तद्व्यतिरेकाऽसम्भवादिति चेत् ? न, साध्यत्वेन यदभिमतं तत्प्रतियोग्यनुयोगिभावसम्बन्धाश्रयो यः प्रागभावस्तन्नाश कस्वस्वव्याप्यस्वाभावेतर सकलसमवधाने यत्सत्वे यत्सत्त्वं यद्वयतिरेके च यद्व्यतिरेक इत्येतावतो विवक्षाऽवश्यकी । अन्यथा परस्य दुःखप्रागभावस्य प्रायश्चिताऽसाध्यतापत्तेस्तथापि तादृशसम्बन्धाश्रयघटप्रागभावनाश कयावत्समवधाने रासभसत्त्वे घटसत्त्वं तादृशसम्बन्धाश्रयघटनाशकोक्तयावत्समवधाने च रासभाऽसत्त्वे घटसत्वमिति घटे रासभकार्यतापत्तिः ।
न च ' यादृश सम्बन्धाश्रययत्किञ्चित्पदार्थ नाशकोक्तयावत्समवधाने यत्सत्त्वे यत्सत्त्वं तादृशसम्बन्धाश्रयतन्नाशकोक्तयावत्समवधाने तद्व्यतिरेके तद्व्यतिरेक' इति विवक्षणानोकापत्तिरत एवान्वयव्यतिरेकदलद्वय घटनापीति वाच्यं लाघवेन नाशकत्वमप्रवेश्य तादृशसम्बन्धाश्रययतिकश्चित्पदार्थस्वस्वव्याप्यस्वाभावेतरयावत्कारणसमवधान इत्यादेर्वाच्यत्वे नाशकत्वपर्यन्तमप्रवेश्य स्वस्वव्याप्येतर सकलकारणसमवधाने यद्धर्मावच्छिन्नसत्त्वे यद्धर्मावच्छिन्नसत्त्वं यद्धर्मावच्छिन्नव्यतिरेके च यद्धर्मावच्छिन्नव्यतिरेकस्तद्धर्मावच्छिन्नं तद्धर्मावच्छिन्नजन्यमित्यत्र पर्यवसितेऽपि सप्तम्यर्थप्रयुक्तत्वस्य स्वरूपसम्बन्धविशेषरूपत्वे कार्यत्वस्यैव तथात्वौचित्यात् तादृशस्यैव लघुनस्तस्य जन्यभावत्वादिना नाशत्वाद्यवच्छिन्ननिरूपित कारणताघटकत्वौचित्यात् । अस्माकं तु परिणामविशेष एव कार्यत्वं तच्च सदसत्कार्यवाद एव सम्भवति, सर्वथा सतः सर्वथाऽसतो वा परिणम्यपरिणामकभावाऽभावात् । अत एव सामग्रया आद्यक्षणसम्बन्धरूपफलाघानानुपपत्त्या तन्नैरर्थ - क्यमपि प्रत्याख्यातं, तद्धर्मविशिष्टाऽऽद्यक्षणसम्बन्धरूपफलस्य निरपायत्वात् ।
'अभूत्वा भावित्वं कार्यत्वमिति तु सहस्रशो दूषितमाकरे । न ह्यभावोत्तरभावयोगित्वं तदर्थः, समयसम्बन्धस्य भावपदार्थत्वेऽतिप्रसङ्गात् । उत्पत्तेस्तदर्थत्वे तु पूर्वदलवैयर्थ्यापातात् ।