________________
१००
बृहत्स्याद्वादरहस्ये
वात् । ननु त्रैकालिकाऽसतः शशविषाणादेः कार्यत्वं मास्त्विति तावन्नियम्यतां न तु प्रागसतोऽपीति चेत् ? कः किमाह : प्राक् सत एव दुग्धादेर्दध्यादिपरिणामदर्शनादत्यन्ताभेद एव कार्यकारणभावात्, समवायस्य निरस्तत्वात् । अत एवाहोपादानग्रहणादिति, उपादानेन परिणाभिकारणेण, ग्रहणात्=सम्बन्धादपि सत्कार्यम् । न ह्यसतः सम्बन्धोऽस्ति । 'असम्बद्धस्यैव करणमस्त्वि'तिनिरसितुमाह सर्व्वसम्भवाभावादिति । असम्बद्धत्वाविशेषे हि सर्वे सर्वस्माद्भवेयुः, न चैवभिष्टमिति । तथाशक्तस्य जनकत्वेऽतिप्रसङ्गात् शक्तस्य जनकत्वं वाच्यम्, शक्तिश्च कार्यस्य प्रागसत्त्वे नियता न स्यादितोऽपि कारणात्प्राक्कार्यस्य सत्त्वमुपेयम् । तथा कारणाभावात् स्त्रभिन्नोपादानाऽनुपादेयत्वादपि सत्कार्यम् । किञ्चाऽसत्कार्यवादे तदीयाऽनन्तप्रागभावादिकल्पने गौरवमिति ।
तदयुक्तं यतो घटश्चेत् कारणव्यापारात्प्रागप्यस्ति तर्हि तदानीं तदुपलम्भप्रसङ्गः । अथाऽनात्रिर्भावान्नोपलभ्यत इति चेत् ? कोऽयमनाविर्भावः ? 'उपलब्ध्यभावो वा ? " अर्थक्रियाकारिरूपाभावो वा ? व्यञ्जकाभावो वा ? * योग्यत्वाभावो वा ? "कालविशेषविशिष्टत्वाऽभावो वा ? " जिज्ञासाभावो वा ! तिरोधानं वा ? 'अन्यद्वा ? नाद्यो यस्यैवाक्षेपस्तेनैवोत्तरदाने घट्टकुटीप्रभाताऽऽपातात् । अथ घटानुपलब्ध्या क्षेपे संस्थानाद्यनुपलम्भस्योत्तरत्वमिति चेत् न, संस्थानज्ञानस्य संस्थानिज्ञानात्पूर्वं नियतमनपेक्षणात् । तस्यापि प्राक् सत्त्वे उपलब्धेरापाद्यत्वात्, असत्त्वे च वक्ष्यमाणदोषानुषङ्गादिति (१) ।
न द्वितीयः, अर्थक्रियाकारिरूपस्य प्रागसत्त्वेऽसत्कार्यवादापातात् ( २ ) । अत एव न तृतीयोऽपि प्राथमिकोपलब्धो कुविन्दादिसमुदायस्य उपलब्धिमात्रे वा विजातीयसंयोगस्य कारणत्वेऽपि तयोः प्राक्सत्त्वावश्यकत्वात् । 'आविर्भूतयोरेव तयोस्तथात्वमिति चेत् ? नाविर्भा - वस्यापि सदसद्विकल्पग्रासात् । विजातीयसंयोगाद्याविर्भावस्य प्राक् सत्त्वेऽपि तेन समं तस्य सम्बन्धो नास्ती'त्यप्यसमाक्षिताऽभिधानम्, तद्दोषाऽनतिवृत्तेः ।
एतेन 'विषयिताविशेषसम्बन्ध एव घटत्वादेर्विजातीयसंयोगजन्यतावच्छेदकताऽवच्छेदको sस्तु, अनन्ततत्प्रागभाव प्रध्वंसाद्य कल्पनलाघवादित्यपि परास्तम्, तदभावेऽपि घटत्वविनिर्मुक्तविषयिताकघटसाक्षात्कारापत्तेश्च । न च स्वाश्रयविषयतासम्बन्धस्य तथात्वान्नेयमापत्तिस्तस्यातिप्रसङ्गित्वेन तत्र लौकिकत्वानिवेशे कार्यतावच्छेदके वा जन्यत्वानिवेशे गौरवात् । किञ्च, घटादेः कुम्भकारादिव्यंग्यत्वे जन्यत्वव्यवहारो निरालम्बनः स्यात्, अन्यथा तरुणतरणिकिरणनिकराभिव्यज्यमाने घटे तज्जन्यत्वव्यवहारापत्तेः | ३ |
:
नापि तुरीयः, महत्त्वसमानाधिकरणोद्भूतरूपवत्त्वादिरूपायाश्चाक्षुषादियोग्यतायाः प्रागुतदिशा प्रागपि सत्त्वात् |४| नापि पञ्चमः कालविशेषस्य करणत्वेनाऽनतिप्रसंग एककारणपरिशेषाssपत्तेः । विशेषस्याप्यागन्तुकोपाधिरूपस्य सदसद्विकल्पग्रासाच्च ( ५ ) । नापि षष्ठः