________________
सिंहश्रमणविलापः, प्रभोः वात्सल्यं च ।
भगवदुपरि अत्युत्कटां भक्तिं दधानः सिंहानगारः सततं चिन्ताचान्तचेताः सञ्जातः । अन्ये साधुसाध्व्यः निखिला पर्षदपि भृशमुद्विग्नमानसाः समभवन् । नहि कस्मै किमपि रोचते । अत्रान्तरे भगवान् श्रावस्तीतः विहृत्य मिण्डिकग्रामस्य बाह्योद्याने समवासरत् ।
वीरपरमात्मानमेव निजात्मनोऽप्यधिकतरं मन्यमानः सिंहानगारः भाव्यनर्थकल्पनाकदर्थितः क्षणमात्रमपि निर्वृतिमलभमानः ग्रामस्य बहिः अटव्यां क्वचननिर्जनप्रदेशे वृक्षाधस्तात् स्थितः रोरुदिति स्म । तस्यैवं रोदनध्वनिमाकर्ण्य न हि मानवपशुपक्षिण एवाऽपि तु समीपवर्तिवृक्षवनलतादयोऽपि निरुत्साहा निरानन्दा दुःखोद्विग्नाश्च समजायन्त । चुक्कस्खलित इव कोऽपि पथिकः तेन वर्त्मना गच्छन् दृष्टाऽनवरतं रुदन्तं सिंहमुनिं परमां ग्लानिमुपागतः । ग्रामाभ्यन्तरे आगत्य कमपि धर्मात्मानमुपलक्ष्याऽकथयत्-रे भ्रातः ! ग्रामबहिर्भागे एको मुनिः अविश्रान्ततया रोदिति विलपति च, नाऽहं तदुःखवर्णनं कर्तुं शक्तः, इतः कोऽपि तत्र गच्छतु तं सान्त्वयतु च । किं भवतां मध्ये कोऽप्येतत् न हि जानाति ।
भगवान् महावीरश्च तज्ज्ञात्वा सिंहमुनेरावानाय मुनीन् प्रेषयति । मुनयः ग्रामबहिर्भागे गत्वा सिंहसाधुं कथयन्ति रे ! शब्दयति त्वां वीरः । सत्वरमागच्छ ।'
'किं मन्दभाग्यस्तत्राऽऽगत्य करोमि ? षण्मासाम्यन्तरे एव अस्माकं मध्यात् प्रभुः परलोकं प्राप्स्यति ।' ततः कथं कथमपि मनोऽधृतिं विमुच्य सिंहः भगवत्समीपे समागच्छत् । वात्सल्यामृतमहोदधिः भगवान् सुधामधुरया वाचा तं समाश्वासयत् । प्रभोः भवजलधिपोतायमानं चरणकमलं प्रणमन्तं वन्दमानं शुश्रूषन्तं च सिंह रुदित्वा रुदित्वा सञ्जातरक्तलोचनं परमदैन्यमुपगतं वीक्ष्य वीरः परमवत्सलतया जगाद भो सिंह ! किमु त्वं प्राकृतजन इवाऽधृतिं विविध हैम रचना समुच्चय
250
-
-