________________
णश्चाऽऽसन् । यदा कदाऽपि यस्य कस्याऽपि स्वल्पोऽपि गुणो दृष्टिविषय: श्रुतिविषयो वा भवेत् तदा ते मुक्तकार्पण्यमौदार्यं विधाय तं सर्वदा प्रशंसयामासुः । स स्वसमुदायस्य परसमुदायस्य वा भवेत्, अरे ! परगच्छीयो वा परधर्मीयो वाऽपि भवेत्, तथाऽपि स यदि गुणी तदा तत्सत्कान् तत्तद्गुणान् आश्रित्य तं ते काममनुमोदयामासुः । कञ्चिद् प्रज्ञावन्तमध्ययनरुचिं च बालश्रमणं यदि ते पश्यन्ति स्म तदा तस्योपरि पूर्णां कृपावृष्टिं वर्षयामासुः । अनेन प्रमोदभावाकर्षणेनैव नैकशः स्वीयपरकीया आचार्यदिसाधवस्तेषामुपरि परमां प्रीतिं दधानास्तेषां स्वीयमानिनस्तान् वन्दनार्थं मिलनार्थं तैः सह तत्त्वचर्चा-दिकरणार्थं च विना सङ्कोचं समागच्छन्ति स्म । धन्यम्मन्याश्च भवन्ति स्म ।
एवंविधास्ते गूर्जर - सौराष्ट्र- मरुधर - मुम्बापुरी - खानदेशप्रभृति क्षेत्रेषु बहुशो विहृत्य धर्मोपदेशदानेन तत्रत्यान् सङ्घान् प्रतिबोध्य चाऽनेकानेकानि धर्मकार्याणि कारयामासुः । यथा मुम्बापुर्युपनगरबोरीवली (पूर्व) स्थ- दोलतनगरमध्ये सम्प्रति यानि कानिचिज्जिनमन्दिरज्ञानमन्दिरोपाश्रयप्रभृतीनि धर्मस्थानानि विद्यन्ते तानि सर्वाण्यपि श्रीमत्सूरीश्वराणां पवित्रप्रेरणयैव सञ्जातानि । तेषां परमप्रभावेणाऽधिष्ठितं तत्रत्यं जिनमन्दिरमद्याऽपि अपूर्वप्रभावशालि सर्वैरनुभूयते । तत: पादलिप्तपुरे तीर्थाधिराजश्रीशत्रुञ्जयगिरराजस्य तलहट्टिकायां पूज्यसूरीश्वराणां मार्गदर्शनेन प्रेरणया च चतुर्भूमिकश्रीकेसरिया आदिनाथजिनमहाप्रासादपरिमण्डितं श्रीकेसरियाजीनगरं नामैकं धर्माराधनसङ्कलं प्रतिष्ठापितं यदद्याऽपि पादलिप्तपुरे प्रधानाराधनाधामतया विराजते ।
विशिष्टः शिष्यपरिवारः
संसारं परित्यज्य स्वपार्श्वे आगता जीवा सर्वदा ज्ञान-दर्शनचारित्र - तपस्सु सततमुद्यता भवेयुः, तथा ते सर्वेऽपि शास्त्राध्ययनग्रन्थलेखन - साहित्यसर्जनादिष्वेवं निजजीवनं यापयित्वा शासनप्रभावनादिकार्याणि च निरलसतया विधाय स्वजीवनमुद्योतितं चरित्रकथा : श्रीमद्विजयामुतसूरीश्वराणां पुण्यजीवनलेश:
241