________________
विततशततरूणाम्पार्श्वभागेऽर्धभागे,
निहितहितततीनां सङ्घशो यत्र सङ्घः । शुकपिकनिनदानाञ्जायते यद्यदुच्चैः, प्रभवति मनसोऽलं "स्वागतं " स्वागतानाम् ॥४॥ मालिनीच्छन्दः स्थाने स्थाने दृश्यते यत्र कुञ्जः, कुञ्जे कुञ्जे श्रूयते मञ्जुनादः । नादे नादे विद्यते रागिरागो, रागे रागे येऽप्रमत्ताः प्रमत्ताः ॥ ५ ॥ शालिनीच्छन्दः
आदीशनेमिप्रभुपार्श्वनाथैः, संराजितानि प्रवराणि यत्र । गुणैः सहस्त्रैर्भवनानि भान्ति, कलाकलापैः कलितानि तानि ॥ ६ ॥ उपजातिच्छन्दः
प्राकारवेष्टनवतीषु गतासु शाला
-
मालासु भोजनविहारवतीषु तासु ।
ऋद्धासु राजवसुधासु ततासु रन्तुं,
येऽत्राऽऽगताः किल गता ननु स्वर्गमध्ये ॥७॥
वसन्ततिलकाच्छन्दः
उदयपुरपुराणे राजराजेन्दुदीप्ते,
निवसति " धरणाशा" मन्त्रिराजो महेभ्यः । नवनवतिमकार्षीद् योऽत्र लक्षाणि रायाम्,
व्ययमनुपमचैत्ये राणके पुण्यहेतोः ॥८॥ मालिनीच्छन्दः
अनुष्टुप्च्छन्दः
सन्ति सन्तो न वा सन्ति, केचित्सन्ति वदन्ति नो । असन्तस्सन्ति भूयांस - स्सन्तमाच्छादयन्ति ते ॥९॥ विबुधवृन्दसुगीतगुणावलिर्निरुपमोऽद्भुतशिल्पविभूषितः । धरणपूर्वविहार इतीरितो लसति हर्षकरो हि दिवौकसाम् ॥१०॥
द्रुतविलम्बितं वृत्तम्
नलिनीगुल्मविमानो, निर्जरलोकञ्जिगमिषुर्विभाति । धरणाशाहस्य यशो, देवसभायाम्प्रवक्तुमिव ॥ ११॥ आर्याच्छन्दः श्रीकीर्तिकल्लोलकाव्यम्
173