________________
इतश्च भावद्रङ्गे, विराजितः पूज्यवृद्धिचन्द्रगुरुः । आयुःपरिहाण्या किल, स्वरलञ्चकार समाधियुतः ॥३५॥ आकर्ण्य वृत्तमेतद्, दारुणदुःखप्रदं मुनिर्नेमः । किंकर्तव्यविमूढः, क्षणमेकं मूच्छितो जातः ॥३६॥ ग्रहवेदनवविधुमिते( १९४९), वर्षे 'राधसितसप्तमीदिवसे । अरिहंत-सिद्ध-साहू-मन्त्रं ध्यायन् गतः स्वर्गम् ॥३७॥ गुरुविरहानलदग्धा, भावनगरवासिनो हि भक्तजनाः । महता यत्नेन मनः-समाधिमासादयन्नूनम् ॥३८॥ निजगुरुवर्यवियोगाद्, यूथच्युतहरिणशाववत् ख्रिनः । जलनिर्गतमीन इव, न रति कुत्राऽपि लेभे सः ॥३९॥ वदति च रे दुर्दैव ! तवाऽपराद्धं मया हि किं ? येन । इदमतिदुःसहदुःखं, मयि क्षिपन् लज्जसे नैव ॥४०॥ अथ किं कुर्वे ? क्व च वा, गच्छामि ? वदामि कस्य वा पुरतः? शरणविहीनस्य हहा ! -ऽऽकस्मिकदुःखौघ आपतितः ॥४१॥ पूज्य गुरो ! इति पदतो, भक्त्या वक्ष्यामि कं मधुरवाचा ?। सम्प्रति वक्ष्यति को मां, रे नेमेत्याप्तवचनेन ॥४२॥ कः पाठयिष्यति च मां, सेविष्ये कस्य पादयुगलं वा ?। शिरसि न्यस्य करं स्वं, को दास्यत्याशिषो मेऽन्यः ? ॥४३॥ इति गुरुविरहार्तं तं, प्रियवाण्याऽबोधयन्मुनिर्दानः । अन्तःखिन्नोऽपि बाढं, कथमप्यालम्ब्य सद्धैर्यम् ॥४४॥ रे भ्रातः किं शोचसि ? त्यज शोकं हृत्समाधिमाधत्स्व । ध्रुवमरणं जातस्ये-त्यागमवचनं च संस्मरतात् ॥४५॥
१. वैशाख
श्रीनेमिसौभाग्यमहाकाव्यम् (पञ्चमः सर्गः)
129