________________
६५
चतुर्थम् अध्ययनम्
(स.) एतत् किं ? - इत्याह-भिक्षुरेतन्न कुर्यात्, किं तदाह-नो उंजेज्जा नो उत्सिञ्चेत्, उञ्जनमुत्सेचनं नो कुर्यात् । नो घट्टिज्जा. घट्टनं सजातीयादिना चालन | न उज्जालिज्जा उज्ज्वालनं व्यजनादिभिर्वृद्ध्यापादनं । न निव्वाविज्जा निर्वापणं विध्यापनं । एतानि न स्वयं भिक्षुः कुर्यात्, तथान्यमन्येन वा नोत्सेचयेत्. न घट्टयेत् नोज्ज्वालयेत् न निर्वापयेत्. तथान्यं स्वत एव उत्सिञ्चन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयादित्यादि पूर्ववत्. ३.
(सु.) एतत् किमित्याह-'न उंजिज्जा' नोत्सिञ्चयेत्, न घट्टयेत्, नोज्ज्वालयेत्, न निर्वापयेत्, तत्र-उञ्जनं उत्सेचनं, घट्टनं सजातीयादिना चालनं, उज्ज्वालनंव्यजनादिभिः वृद्ध्यापादनं, निर्वापणं विध्यापनं, एतत् स्वयं न कुर्यात् तथाऽन्यमन्येन वा नोत्सेचयेदित्यादि, तथाऽन्यं स्वत उत्सिञ्चयन्तं वा घट्टयन्तं वा उज्ज्वालयन्तं वा निर्वापयन्तं वा न समनुजानीयात्-इत्यादि पूर्ववत् ।१२।
से भिक्खू वा भिक्खूणी वा संजय-विरय-पडिहयपच्चक्खाय-पावकम्मे दिया वा राउ वा एगउ वा परिसागउ वा सुत्ते वा जागरमाणे वा ।
(ति.) प्राग्वत् । . (स.) से इति-से भिक्खु० इत्यादिव्याख्या पूर्ववत्. (सु.) 'से भिक्खू वा' इत्यादि यावत् जागरमाणे वत्ति पूर्ववदेव
से सिएण वा, विहुयणेण वा, तालियंटेण वा, पत्तेण वा, पत्तभंगेण वा, साहाए वा, साहाभंगेण वा, पेहुणेण वा, पेहुणहत्येण वा, चेलेण वा, चेलकन्नेण वा, हत्थेण वा, मुहेण वा, अप्पणो वा कार्य बाहिरं वावि पुग्गलं न फुमिज्जा, न वीइज्जा, अन्नं न फुमाविज्जा, न वीयाविज्जा, अन्नं फुमंतं वा, वीयंतं वा, न समणुजाणामि, जावज्जीवाए तिविहं तिविहेणं, मणेणं, वायाए, कायेणं, न करेमि, न कारवेमि, करंतं पि अन्नं न समणुजाणामि, तस्स भंते ! पडिक्कमामि, निंदामि, गरिहामि, अप्पाणं वोसिरामि ।।४।। (सू.४.१३)
(ति.) सितेन वा-चामरेण । विधूननेन-वीजनेन । तालवृन्तेन-चर्ममयेन, वंशमयेन वा द्विपुटेन मध्यग्रहणच्छिद्रेण । पत्रेण-पद्मिनीपत्रादिना । पत्रभङ्गेन-कदलीपत्रखण्डेन ।