________________
४८
दशवैकालिकं-टीकात्रिकयुतम्
."
रवणं रुतं-शब्दकरणं, भ्रमणं भ्रान्तमितश्चेतश्च गमनं त्रसनं त्रस्तं - दुःखोद्वेजनं, पलायनं पलायितं-कुतश्चिन्नाशनं, तथा आगते:- कुतश्चिज्जातस्य गतेश्च - कुतश्चित् क्वचिदेव, विन्नाया इति ज्ञातारः । आह-अभिक्रान्त-प्रतिक्रान्ताभ्यां नागति-गत्योः कश्चिद्भेद इति, किमर्थं भेदेनाभिधानं ?, उच्यते, विज्ञानविशेषख्यापनार्थम् एतदुक्तं भवति-य एवं जानन्ति यथा वयमभिक्रमामः प्रतिक्रमामो वा त एव त्रसाः, न तु वृत्तिं प्रत्यभिक्रमणवन्तोऽपि वल्ल्यादय इति । आह - एवमपि द्वींद्रियादीनामत्रसत्वप्रसङ्गः, अभिक्रमण-प्रतिक्रमणभावेऽप्येवंविधज्ञाना-भावात् ?, नैतदेवं, हेतुसंज्ञयाऽवगतेर्बुद्धिपूर्वकमेव छायात उष्णमुष्णाद्वा छायां प्रति तेषां अभिक्रमणादिभावात्, न चैवं वल्ल्यादीनामभिक्रमणादि, ओघसंज्ञया प्रवृत्तेरिति । अधिकृतत्रसभेदानाह - 'जे य' इत्यादि, ये च कीट-पतङ्गा इत्यत्र कीटाः - कृमयः, "एकग्रहणे तज्जातीयग्रहण" मिति द्वीन्द्रियाःशङ्खादयोऽपि गृह्यन्ते, पतङ्गाः शलभाः, अत्रापि पूर्ववच्चतुरिन्द्रिया भ्रमरादयोऽपि गृह्यन्त इति, तथा याश्च कुन्थु-पिपीलिका इत्यनेन त्रीन्द्रियाः सर्वे एव गृह्यन्ते, अत एवाह-सर्वे द्वीन्द्रियाः-कृम्यादयः सर्वे त्रीन्द्रियाः- कुन्थ्वादयः सर्वे चतुरिन्द्रियाःपतङ्गादयः, आह-ये च कीट - पतङ्गा इत्यादावुद्देशव्यत्ययः किमर्थं ?, उच्यते, "विचित्रा सूत्रगतिरतन्त्रः क्रम" इति ज्ञापनार्थं, सर्वे पञ्चेन्द्रियाः सामान्यतो, विशेषतः पुनः सर्वे तिर्यग्योनयो-गवादयः, सर्वे नारका - रत्नप्रभानारकादि-भेदभिन्नाः सर्वे मनुजाःकर्म्मभूमिजादयः, सर्वे देवा भवनवास्यादयः सर्वशब्दश्चात्र परिशेषभेदानां त्रसत्वख्यापनार्थः, सर्व एव एते त्रसाः, न त्वेकेन्द्रिया इव त्रसाः स्थावराश्चेति, उक्तं च-"पृथिव्यम्बुवनस्पतयः स्थावराः, तेजोवायू द्वीन्द्रियादयश्च त्रसाः" (तत्त्वा० अ० २, सू. १३-१४) इति, सर्वे प्राणिनः परमधर्माण इति सर्वे एते प्राणिनो द्वीन्द्रियादयः पृथिव्यादयश्च परमधर्म्माण इति अत्र परमं सुखं तद्धर्म्माणः सुखधर्म्माणः, सुखाभिलाषिण इत्यर्थः ।।
·
,
एसो खलु छट्टो जीवनिकाओ तसकाउ त्ति पवुच्चई ।। (सू. ४ . १ )
(ति.) [ षष्ठं जीवनिकायं पूर्णं कर्तुमाह-एसो... इति].....स्पष्टम् ।
,
(स.) षष्ठं जीवनिकायं पूर्णं कर्तुमाह-एसो खलु छट्ठो जीवनिकाओ तसकाओ 'त्ति उच्चइ, इच्चेसिं छण्हं जीवनिकायाणं नेव सयं दंडं समारंभिज्जा' इत्यादि. एष खलु