________________
४००
दशवैकालिकं-टीकात्रिकयुतम्
प्रत्यन्तरे -
मूलं दयादानमुखाश्चतस्रः, शाखाः प्रशाखा नियमव्रतानि । पुष्पाणि संपत्प्रकराः फलं तु, मोक्षो भवेद् धर्मसुरद्रुमस्य ।।११।।
इति दशवैकालिकलघुटीका समाप्ता । । छ । । शुभं भवतु ।। मंगलमस्तु ।। श्रीगुरुभ्यो नमः ।। परमगुरुभ्यो नमः ।। मंगलमस्तु ।। संवत् १५१६ वर्षे माघ वदि १ गुरौ अद्ये हि श्रीघोघावेलाकूले महाराजाधिराजपातसाहश्रीकुतबदीनमहिम्मदराज्ये व्यापारी तन्नियुक्तः सं० सोमदत्तपंचकुलप्रतिपत्तौ ।। श्रीमद्धर्मभृतां वरिष्टतपसां पू० सत्यविशालप्रभृतीनां महात्मनां तेषामध्ययनार्थं पुस्तकमिदमलिखापयत् द्युम्नेन स्वार्थं तथा परोपकाराय ।। [श्रीगणेशाय ।। श्रीवक्रतुठाय ।।] शुभं भवतु ।।
श्रीआणंदविमलसूरिगुरुभ्यो नमः पं० वीरविमलगणि ।
इति भगवच्छय्यंभवश्रुतकेवलिनिर्यूढं श्रीमत्सुमतिसाधुसूरिणा भवविरहाङ्कितबृहट्टीकोद्धृतवृत्त्युपेतं
श्रीदशवैकालिकं समाप्तम् ।
इति श्रीदशवैकालिकसूत्रं टीकात्रिक समेतं समाप्तम्.