SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ २ चूलिका - विविक्तचर्या ३७७ तथा पापं समाचरति वीतघृणो जघन्यः, प्राप्यापदं सघृण एव विमध्यबुद्धिः । प्राणात्ययेऽपि न तु साधुजनः स्ववृत्तं, वेलां समुद्र इव लङ्घयितुं समर्थः ।।३।।" इत्यलं प्रसंगेनेति ।।चू.२.२।। अणुसोयसुहो लोओ, पडिसोओ आसवो सुविहियाणं । अणुसोओ संसारो, पडिसोओ तस्स उत्तारो ||चू.२.२।। (ति.) अधिकृतमेव समर्थन्नाह-निम्नाभिसर्पणवद् विषयेषु प्रवर्तनम् अनुश्रोतः । तत्सुखो लोकः । प्रतिश्रोतः । तद्विपरीतः, आश्रवः-प्राणातिपातविरत्यादिप्रतिज्ञारूपः। सुविहितानाम्-साधूनाम् । इहाश्रवशब्देन प्रतिज्ञाऽभिधीयते । तथा चाभिधानचिन्तामणि: संवित् सन्धाऽऽस्थाऽभ्युपायः, संप्रत्याभ्यः परश्रवः । अङ्गीकारोऽभ्युपगमः, प्रतिज्ञाऽऽगूश्च सङ्गरः ||२७८ ।। अनुश्रोतः-शब्दादिविषयानुकूल्यं, संसारकारणत्वात् संसारः । यथा-विषं मृत्युः, दधि-त्रपुषी प्रत्यक्षो ज्वरः । प्रतिश्रोतः उक्तरूपः । तस्मात् संसारादुत्तारहेतुत्वाद् उत्तारः । यथा-तन्दुलान् वर्षति पर्जन्य इति ।।चू.२.२.।। (स.) अधिकृतमेव स्पष्टयन्नाह-अणुसोअ...इति-अनुस्रोतःसुखो लोक उदकनिम्नाभिसर्पणवत्, कथं ? यतो लोकः प्रवृत्त्यानुकूलविषयादिसुखो गुरुकर्मत्वात्, अथ प्रतिस्रोत एतस्माद् विपरीतः, आश्रव इन्द्रियजयादिरूपः परमार्थपेशलः कायवाङ्-मनोव्यापारः आश्रमो वा व्रतग्रहणादिरूपः, सुविहितानां साधूनां, अथोभयफलमाहअनुस्रोतः संसारः शब्दादिविषयानुकूल्यं संसार एव, कारणे कार्योपचारात्, यथा विषं मृत्युः, दधि-त्रपुसी प्रत्यक्षो ज्वरः, प्रतिस्रोत उक्तलक्षणः, तस्येति पञ्चम्यर्थे षष्ठी, सुपां सुपो भवन्ति' इति वचनात्, तस्मात् संसारादुत्तारः, उत्तरणमुत्तारः, हेतौ फलोपचारात्, यथायुघृतं, तन्दुलान् वर्षति पर्जन्यः |चू.२.३।। ___ (सु.) अधिकृतं स्पष्टयन्नाह-अणुसोय...इति, अनुश्रोतःसुखो लोकः उदकनिम्नाभिसर्पणवत् प्रवृत्त्याऽनुकूल-विषयादिसुखो लोकः, कर्मगुरुत्वात्, प्रतिश्रोत एव १. आसमो.' इति चूर्णिपाठः, 'विसयविणियत्तणं... आसमो णाम तवोवणत्थाणं' - इति द्वौ अर्थो विवृतौ ।
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy