________________
१ चूलिका - रतिवाक्या
३५३ आयंके से वहाय होइ । (१०) संकप्पे से वहाय होइ । (११) सोवक्केसे गिहिवासे निरक्केसे परियाए । (१२) बंधे गिहिवासे मुक्खे परियाए । (१३) सावज्जे गिहिवासे निरवज्जे परियाए । (१४) बहुसाहारणा गिहीणं कामभोगा। (१५) पत्तेयं पुनपावं । (१६) अणिच्चे खलु भो मणुयाण जीविए, कुसग्गजलबिंदुचंचले। (१७) बहुं च खलु भो पावं कम्मं पयडं । (१८) पावाणं च खलु भो ! कडाणं कम्माणं पुब्बिं दुच्चिन्नाणं दुप्पडिकंताणं वेयइत्ता मुक्खो, नत्थि अवेइत्ता, तवसा वा झोसइत्ता। अट्ठारसमं पयं भवइ । (सूत्र चू. १.१)
(१) तं जहा (१) दुस्समाए दुप्पजीवी ।
(ति.) तानि कानि ? -तद्यथा-हंहो ! दुःषमायां दुःप्रजीविनः-हंहो इति शिष्यामन्त्रणं, दुःषमायां कालदोषादेव दुःखेन, कष्टेन, प्रकर्षण, उदारभोगाकाङ्क्षया जीवितुं शीला: दुःप्रजीविनः, प्राणिनः इति गम्यते । राजादीनामप्युदारभोगाप्तौ विपक्षातङ्कादीन्यनेकान्यन्तरायाणि दृश्यन्ते । ततः किमुदारभोगरहितेन विडम्बनाप्रायेण कुगतिहेतुना गृहाश्रमेणेति सम्प्रत्युत्प्रेक्षितव्यं, इति प्रथमं स्थानम् ।।१।।
(स.) तमिति-तत्र प्रथम स्थानकमाह-तद्यथेत्युदाहरणे, हं ! भो ! दुःषमायां दुष्पजीविन इति, हं ! भो शिष्यामन्त्रणे, दुःषमायामधमकालरूपायां, कालदोषादेव दुःखेन कृच्छ्रेण, प्रकर्षेणोदार-भोगापेक्षया, जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनामप्यनेक-दुःखप्रयोगदर्शनात्, उदारभोगरहितेन विट(ड)म्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेण ?-इति सम्प्रत्युपेक्षितव्यमिति प्रथमं स्थानम्. ।।१।।
(सु.) तद्यथेत्यादि-तद्यथेत्युदाहरणोपन्यासार्थः, हंभो ! दुःषमायां दुष्पजीविन इति, हंभो-शिष्यामन्त्रणे, दुष्षमायां-अधमकालाख्यायां, कालदोषादेव दुःखेन-कृच्छ्रेण प्रकर्षणोदारभोगापेक्षया जीवितुं शीला दुष्पजीविनः, प्राणिन इति गम्यते, नरेन्द्रादीनां अपि अनेकदुःखप्रयोगदर्शनात्, उदारभोगरहितेन च विडम्बनाप्रायेण कुगतिहेतुना किं गृहाश्रमेण ?-इति संप्रत्युपेक्षितव्यमिति प्रथमं स्थानम् ।।१।।
(२) लहुसगा इत्तरिया गिहीणं कामभोगा।
(ति.) तथा लाघव इत्वरा गृहिणां कामभोगा:-दुःषमायामिति सर्वत्रानुवर्तते, सन्तोऽपि लघवा-तुच्छाः प्रकृत्यैव तुषमुष्टिवदसाराः । अल्पकाला:-दुषमायामायुषोऽल्पत्वात् । गृहस्थानां कामभोगा:-शब्दादयो विषयाः विपाककटवः प्रभूतान्तरायाश्च ।