________________
२०३
षष्ठम् अध्ययनम् च वनीपकप्रतिघातादीति ||६.५९ ।। उक्तो निषद्यास्थानविधिः, तदभिधानात् षोडशस्थानं ।।
वाहिओ वा अरोगी वा, सिणाणं जो उ पत्थए । वुक्कंतो होइ आयारो, जढो भवइ संजमो ||६.६०।।
(ति.) सप्तदशमाह-व्याधिमान् वा अरोगी वा । स्नानं यः प्रार्थयते-सेवते । तेन व्युत्क्रान्तो भवत्याचार:-साधूनां स्नाननिषेधात् । जढः-त्यक्तः | संयमः-प्राणिरक्षादिः, अप्कायविराधनात् ।।६.६० ।।
(स.) अथ सप्तदशस्थानमाह-वाहि...इति-यस्तु साधुः स्नानमङ्गप्रक्षालनं प्रार्थयते सेवते, तेन साधुनाऽऽचारो बाह्यतपोरूपो व्युत्क्रान्तो भवति, कथम् ? अस्नानपरीषहस्यासहनात्, पुनः संयमः प्राणिरक्षणादिकः जढः परित्यक्तो भवति, कस्मात् । अप्कायादिविराधनात्, किंभूतः साधुः ? व्याधितो वा व्याधिग्रस्तो वा, पुनररोगी वा रोगरहितो वा, केनापि स्नानं न कर्तव्यमित्यर्थः ।।६.६०।।
(सु.) साम्प्रतं सप्तदशस्थानमाह-वाहिओ वा इति, व्याधिमान-व्याधिग्रस्तः, अरोगी वा-रोगविप्रमुक्तो वा, स्नानं-अङ्गप्रक्षालनं, यस्तु प्रार्थयते-सेवत इत्यर्थः, तेनेत्थम्भूतेन व्युत्क्रान्तो भवति आचारो-बाह्यतपोरूपः, अस्नानपरीषहानतिसहनात्, जढः-परित्यक्तो भवति, संयमः-प्राणिनां रक्षणादिको-ऽप्कायादिविराधनादिति ।।६.६० ।।
संतिमे सुहुमा पाणा, घसासु भिलुगासु य । जे य भिक्खू सिणायंतो, वियडेणुप्पिलावए ||६.६१।।
(ति.) प्रासुकाम्बुस्नाने कथं संयमत्याग ? इत्याह-सन्तीमे-प्रत्यक्षाः । सूक्ष्माः । प्राणा:-द्वीन्द्रियाद्याः | घसासु-शुषिरभूमिषु। भिलुषासु-भूमिराजिषु । यान्-तान् भिक्षुः स्नानं कुर्वन् । विकटेन-विपुलेनाम्भसा प्रासुकेनापि उत्प्लावयेत् । ततः संयमविराधना ।।६.६१।।
(स.) प्रासुकस्नानेन कथं संयमपरित्याग इत्याह-संति इति-सन्त्येते प्रत्यक्षमुपलभ्य
१. पोली स्वारभूमीमां १० टि. ।। २. फाटली १० टि. ।।