SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ १९४ दशवैकालिकं-टीकात्रिकयुतम् उउबद्धम्मि न अनला, नपुंसका वासावासासु दोवि नो सेहा । दिक्खिज्जति सहे हवणाकप्पो इमो होइ ।।२।। [ ] ||६.४३-४५।। (स.) अथ द्वादशविधिरुच्यते-तस'इति-एतद्गाथात्रयस्यापि व्याख्यानं पूर्ववत् कार्य, नवरं त्रसनाम ग्राह्यम्. || इत्युक्तो द्वादशस्थानविधिः । तत्प्रतिपादनेन कायषट्कं कथितं, कायषट्ककथनेन साधूनां मूलगुणा उक्ताः ।।६.४३-४५।।। - (सु.) द्वादशस्थान विधिरुच्यते-तसकायं'इति, त्रसकायं-द्वीन्द्रियादिरूपं न हिंसन्त्यारम्भ-प्रवृत्त्यादिना प्रकारेण, मनसा वाचा कायेन-तदहितचिन्तनादिना, त्रिविधेन करणयोगेन-मनःप्रभृतिभिः करणादिना प्रकारेण, संयता:-साधवः, सुसमाहिता-उद्युक्ता इति ।।६.४३।। तत्रैव हिंसादिदोषमाह-त्रसकायं विहिंसन्नारम्भप्रवृत्त्यादिना प्रकारेण हिनस्त्येव तुरवधारणार्थे व्यापादयत्येव तदाश्रितान्-त्रसाश्रितान् त्रसांश्च विविधान् प्राणिनस्तदन्यद्वीन्द्रियादीन्, चशब्दात् स्थावरांश्च पृथिव्यादीन्, चाक्षुषानचाक्षुषांश्च-चक्षुरिन्द्रियग्राह्यानग्राह्यांश्चेति सूत्रार्थः ।।६.४४ ।। यस्मादेवं तम्हा इति-तस्मादेतं विज्ञाय दोषं-तदाश्रितजीवहिंसालक्षणं दुर्गतिवर्धनंसंसारवर्धनं त्रसकाय-समारम्भं तेन तेन विधिना यावज्जीवमेव वर्जयेदिति ।।६.४५।। उक्तो द्वादशस्थानविधिः, प्रतिपादितं कायषट्कम्, एतत्प्रतिपादनादुक्ता मूलगुणाः, अधुनैतवृत्तिभूतोत्तरगुणावसरः, ते चाकल्पादयः षडुत्तरगुणाः, यथोक्तं-"अकप्पो गिहिभायणं" इति, तत्राकल्पो द्विविधः-शिक्षकस्थापनाकल्पः अकल्पस्थापनाकल्पश्च। तत्र शिक्षकस्थापनाकल्पोऽनधीतपिण्डनियुक्त्यादिनाऽऽनीतमप्याहारादि न कल्पत इति, उक्तं च "अणहीया खलु जेणं पिंडेसणसेज्जवत्थपाएसा । तेणाणियाणि जइणो कप्पंति न पिंडमाईणि ।।१।। उउबद्धमि ण अणला वासावासे उ दोवि णो सेहा । दिक्खिज्जंती पायं ठवणाकप्पो इमो होइ ।।२।।"
SR No.022615
Book TitleDashvaikalik Sutram
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2014
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy