________________
षष्ठम् अध्ययनम्
१८१ बिडं-गोमूत्रादिपक्वं, उद्भेद्यं-सामुद्रादि, यद्वा बिडं-प्रासुकं उद्भेद्यमप्रासुकमपि, एवं द्विप्रकारं लवणं, तथा तैलं सर्पिश्च फाणितं, तत्र तैलं प्रतीतं, सर्पिः-घृतं, फाणितं-द्रवगुडः, एतल्लवणादि एवं प्रकारमन्यच्च न ते साधवः संनिधिमिच्छन्तिपर्युषितं स्थापयन्ति, ज्ञातपुत्रवचोरताः-भगवद्वर्धमानवचसि निस्सङ्गताप्रतिपादनपरे रताः-सक्ता इति ।।६.१७।।
लोभस्सेस-ऽणुफासो, मन्ने अन्नयरामवि । जे सया सन्निही कामे, गिही पव्वइए न से ।।६.१८।।
(ति.) सन्निधिदोषमाह-लोभस्यैषोऽणुस्पर्श:-लोभांशो यत्सन्निधिकरणम् । अतो मन्ये-अहम् । अन्यतरमपि-स्तोकमपि । यः सदा सन्निधिं कामयते स गृही । प्रव्रजितो न सः ||६.१८ ।।
(स.) अथ सन्निधिदोषमाह-लोह...इति लोभस्य चारित्रविघ्नकारिणश्चतुर्थकषायस्यैषोऽनुस्पर्श एषोऽनुभावो यदुत सन्निधीकरणमिति, यतश्चैवमतो मन्ये मन्यन्ते प्राकृतशैल्या एकवचनम्, एवं तीर्थकरगणधरा आहुः-अन्यतरां(रं) स्तोका(क)मपि यः स्यात्, यः कदाचित् सन्निधिं कामयते सेवते कामी, अतः स भावतो गृही गृहस्था, नासौ प्रव्रजितः, कस्मात् ? दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, सन्निधीयते नरकादिष्वात्मानेनेति सन्निधिरिति शब्दार्थात्, प्रव्रजितस्य च दुर्गतिगमनाभावादिति ||६.१८ ।।
(सु.) संनिधिदोषमाह-लोहस्स'इति, लोभस्य-चारित्रविघ्नकारिणश्चतुर्थकषायस्यैषो-ऽनुस्पर्श-एषोऽनुभावो यदुत एतत् सन्निधिकरणमिति, यतश्चैवमतो [ऽहं]मन्ये, मन्यन्ते प्राकृतशैल्या एकवचनं, एवमाहुः तीर्थकरगणधराः, अन्यतरा(रं)मपिस्तोका(क)मपि यः स्यात्, यः कदाचित् संन्निधिं कामयते-सेवते गृहीति-गृहस्थोऽसौ, भावतः प्रव्रजितो नेति, दुर्गतिनिमित्तानुष्ठानप्रवृत्तेः, सन्निधीयते नरकादिष्वात्माऽनयेति, सन्निधिरिति शब्दार्थात् प्रव्रजितस्य च दुर्गतिगमनाभावादिति ।।६.१८ ।।
जं पि वत्थं व पायं वा, कंबलं पायपुंछणं । तं पि संजमलज्जट्ठा, धारिंति परिहरंति य ।।६.१९ ।। (ति.) तर्हि वस्त्रादि धारयतां साधूनां कथं न सन्निधिः ? इत्याह-यदपि वस्त्रं