________________
पञ्चमम् अध्ययनम्
१५१
(स.) पुनः किं किं तदाह-तरुण...इति-वृक्षस्य चिञ्चिणिकादेर्वा, तृणस्य वा मधुरतृणादेः, अन्यस्यापि हरितस्यार्जकादेश्च, तरुणकं वा प्रवालं, आमकमपरिणतं सचित्तं, संयतः पूर्वगाथोक्तं शालूरादि सप्तकं चिञ्चिणिकादित्रयस्य तरुणप्रवालं च सचित्तं परिवर्जयेत्, ।।१९।।
(सु.) तरुणगं'इति, तरुणकं वा प्रवालं-पल्लवं, वृक्षस्य-चिञ्चिणिकादेः, तृणस्य वा-मधुरतृणादेः, अन्यस्य वापि हारितस्यार्यकादेः, आमकं-अपरिणतं परिवर्जयेदिति ||५.२.१९।।
तरुणियं वा छिवाडिं, आमियं भज्जियं सई । दितियं पडियाइक्खे, न मे कप्पइ तारिसं ।।५.२.२०।।
(ति.) तथा तारुणिकां वा अपूर्णतारुण्याम् । छिवाडिम्-मुद्गादिफलीम् । आमाम्अपक्वाम् । तथा भर्जिताम् । सकृद्-एकवारम् । शेषं स्पष्टम् ।।५.२.२० ।।
(स.) पुनः संयतः किं कुर्यात् ? यद् आह-तरुणि...इति भिक्षुरेवंविधां स्त्रियं प्रतीति वदेत, इतीति किं ? न मे ममैतादृशं भोजनं कल्पते, किं कुर्वती स्त्रियं? छिवाडिं मुद्गादिफलिं, किंविशिष्टां छिवाडि ? तरुणं वा असंजातां, तथा पुनर्भर्जितां, पुनः किंभूताम् ? आमाम्-असिद्धां सचेतनां सकृदेकवारं ददतीम् ।।२०।।
(सु.) तथा-तरुणियं, वा'इति तरुणां वा असंजातां वा छिवाडिमिति मुद्गादिफलिं, आमाम्-असिद्धां सचेतनां, तथा भजितां, सकृत्-एकवारं, ददती प्रत्याचक्षीत-न मम कल्पते तादृशं भोजनमिति ।।५.२.२० ।।
तहा कोलमणस्सिन्नं, वेलूयं कासवनालियं । तिलपप्पडगं नीम, आमगं परिवज्जए ||५.२.२१।।
(ति.) तथा-कोलम्-वरदम् [? बदरम्] । अश्विन्नम्-वढ्युदकयोगेनाप्राप्तविकारम् । वेलुकम्-वंशकरिल्लम् । कासवनालिकम्-श्रीपर्णीफलम् । अश्विन्नमित्यनयोरपि योज्यम् । तिलपर्यटम्-सतिलपिष्टमयम् । नीमम्-नीमफलम् । आमकं परिवर्जयेत् ।।५.२.२१ ।।
(स.) पुनः साधुः किं वर्जयेत् ? तद् आह-तहा'इति साधुः कोलं बदरं परिवर्जयेत्,