________________
११८
दशवैकालिकं-टीकात्रिकयुतम् कथयेदित्याह-तं'इति पूर्ववत् ।।६४।।
(सु.) एवमुस्सक्किया'इति-यावद् भिक्षां ददामि तावन्मा भूत्-विध्यास्यतीत्युत्सिच्य दद्याद्, एवं ओसक्किया-अवसातिदाहभयादुल्नुकान्युत्सार्येत्यर्थः, एवं 'उज्जालिया पज्जालिया' उज्ज्वाल्य-अर्द्धविध्यातं सकृदिन्धनप्रक्षेपेण, प्रज्वाल्य-पुनः पुनः, एवं निव्वाविया-निर्वाप्य दाहभयादेवेति भावः, एवमुस्सिंचिया निस्सिंचिया-उत्सिच्यअतिभृतादुज्झनभयेन ततो वा दानार्थं तीमनादि, निषिच्य-तद्भाजनाद् रहितं द्रव्यमन्यत्र भाजने, तेन दद्याद्, उद्वर्त्तनभयेन, वा तदा(आर्द्र)हितमुदकेन निषिच्य, एवं ओवत्तियाओवारिया, 'अपवर्त्य-तेनैवाग्निनिक्षिप्तेन भाजनेनान्येन वा दद्यात्, तथा 'अवतार्य' दाहभयाद् दानार्थं वा दद्यात् । तत्तदन्यच्च साधुनिमित्तयोगे न कल्पते ।।५.६३ ।।
'तं भवे' सूत्रं पूर्ववत् ।।५.६४ ।। हुज्ज कटुं सिलं वा वि, इट्टालं वा वि एगया । ठवियं संकमट्ठाए, तं च हुज्ज चलाचलं ।।५.१.६५।।
न तेण भिक्खू गच्छिज्जा, दिट्ठो तत्थ असंजमो । गंभीरं झुसिरं चेव, सबिंदियसमाहिए ।।५.१.६६ ।। युग्मम् (ति.) गोचरप्रविष्टस्य च-आद्यः स्पष्ट: । द्वितीयस्यायमर्थः । गम्भीरम्-अप्रकाशम | शुषिरं प्रतीतम्। तत्र चलने जीवोपमर्दनरूपोऽसंयमो दृष्टस्ततः सर्वेन्द्रियसमाहितो भिक्षुस्तस्मिन्न गच्छेत् ।।५.६५-५.६६ ।।
(स.) पुनर्गोचराधिकार एव गोचरीप्रविष्टस्य साधोः को विधिः ?-इत्याह-हुज्ज...इति एवंविधं काष्ठं शिला वा २ इष्टकाशकलं वा भवेत्, किंविशिष्टं काष्ठादि ? एकदा एकस्मिन् काले वर्षाकालादौ सङ्क्रमार्थं सुखेन चलनार्थं स्थापितं तदपि च चलाचलमप्रतिष्ठितं भवेत्, न तु भवेत् स्थिरमेव. ।।५.६५।।
तादृशेन चलाचलेन काष्ठादिना साधुः किं न कुर्यात् ?-इत्याह-ण...इति-तेन काष्ठादिना भिक्षुर्न गच्छेत्, कथमित्याह-तत्र काष्ठादौ गमनेऽसंयमो दृष्टः, कथं ? काष्ठादिचलने प्राणिनामुपमर्दसंभवात्. तथा एवंविधमन्यदपि काष्ठादि परिहरेत् साधुः, विशिष्टं काष्ठादि ? गम्भीरमप्रकाशं, पुनः शुषिरं अन्तःसाररहितं, किंविशिष्टः