________________
68
श्रीमद्भगवतीसूत्रम्
चउत्थिं उरगा पुण पंचमि पुढविं ॥ १॥ छटुिं च इत्थियाओ मच्छा मणुया सत्तमि पुढविं॥” [ असज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः । सिंहा यान्ति चतुर्थी पञ्चमी पुनः पृथ्वीमुरगाः ॥ १॥ षष्ठीं च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम् ॥ ] इति, ‘खहचरविहाणाई। ति इह 5 विधानानि-भेदाः, 'चम्मपक्खीणं' ति वल्गुलीप्रभृतीनां, ‘लोमपक्खीणं' ति हंसप्रभृतीनां, ‘समुग्गपक्खीणं' ति समुद्गकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वर्त्तिनां, ‘विययपक्खीणं' ति विस्तारितपक्षवतां समयक्षेत्रबहिवर्तिनामवेति, 'अणेगसयसहस्सखुत्तो' इत्यादि तु यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य
पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात् , यदाह- 'पंचिंदिय10 तिरियनरा सत्तटुभवा भवग्गहेण ' त्ति, [ पञ्चेन्द्रियतिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः] इति 'जहा पन्नवणापए ' त्ति प्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं'सरडाणं सल्लाण' मित्यादि, 'एगखुराणं' ति अश्वादीनां, 'दुखुराणं' ति गवादीनां, ‘गंडीपयाणं' ति हस्त्यादीनां, ‘सणहप्पयाणं' ति
सनखपदानां सिंहादिनखराणां, 'कच्छभाणं' ति इह यावत्करणादिदं 15 दृश्यं - 'गाहाणं मगराणं पोत्तियाणं' इत्यत्र ‘जहा पनवणापए
त्ति अनेन यत्सूचितं तदिदं- 'मच्छियाणं मसगियाण' मित्यादि, 'उवचियाणं' इह यावत्करणादिदं दृश्यं - 'रोहिणियाणं कुंथूणं पिविलियाण' मित्यादि, 'पुलाकिमियाण' मित्यत्र यावत्करणादिदं दृश्यं - 'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण' मित्यादि, ‘रुक्खाणं' 20 ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः, बहुबीजाः - अस्थिकतिन्दुकादयः, 'गुच्छाणं' ति वृन्ताकीप्रभृतीनां, यावत्करणादिदं दृश्यं - 'गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं' ति तत्र ‘गुल्मानां ' नवमालिकाप्रभृतीनां, 'लतानां ' पद्मलतादीनां, 'वल्लीनां ' पुष्पफलीप्रभृतीनां, ‘पर्वकाणाम् । इक्षु