SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 59 पञ्चदशं गोशालकाख्यं शतकम् त्यक्त्वा, 'उवरिले' त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं, 'माणसे' त्ति गङ्गादिपरूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्ते इत्यर्थः, 'संजूहे' त्ति निकायविशेषे देवे, 'उववज्जइ' त्ति प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे' 5 त्ति महामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्पथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा विषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदात् त्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि वयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानभिहितत्वादिति, 10 'पाईणपडीणायए उदीणदाहिणवित्थिण्णे' त्ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं, तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति, 'जहा ठाणपए ' त्ति ब्रह्मलोक स्वरूपं तथा वाच्यं यथा 'स्थानपदे'प्रज्ञापनाद्वितीयप्रकरणे, तच्चैवं-'पडिपुण्णचंदसंठाणसंठिए अच्चिमालीभासरासिप्पभे' इत्यादि । “असोगव.सए' इत्यत्र यावत्करणात् 15 'सत्तिवण्णवडेंसए चंपगवडेंसए चूयव.सएमज्झेय बंभलोयवडेंसए' इत्यादि दृश्यं, 'सुकुमालगभद्दलए' त्ति सुकुमारकश्चासौ भद्रश्च-भद्रमूर्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, 'मिउकुंडलकुंचियकेसए' त्ति मृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा, 'मट्ठगंडतलकण्णपीढए' त्ति मृष्टगण्डतले कर्णपीठके–कर्णाभरणविशेषौ 20 यस्य स तथा, 'देवकुमारसप्पभए ' त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभो वा यः स तथा, कशब्दः स्वार्थिक इति, ‘कोमारियाए पव्वज्जाए ' त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रव्रज्यायां विषयभूतायां, सङ्ख्यानं-बुद्धिं पतिलेभ इति योगः, 'अविद्धकण्णए चेव' त्ति कुश्रुतिशलाकयाऽविद्धकर्णः
SR No.022609
Book TitleBhagwati Sutram
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherGodiji Jain Temple and Charities
Publication Year1954
Total Pages90
LanguageSanskrit, English
ClassificationBook_Devnagari, Book_English, & agam_anuttaropapatikdasha
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy