SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ८६ ] तन्दुलगैचारिकप्रकीर्णकम् भोजनायेति २। एकस्मिन् मागधके प्रस्थके कति तन्दुला भवन्तीत्याह-'चउसहि०' चतुःषष्टितन्दुलसाहसिको मागधः प्रस्थो भवत्येकः, एकः कालः कतिभिः तन्दुलैः स्यादित्याहबिसाहस्सिएणं कवलोणं'ति द्विसाहसिकेण तन्दुलेन कवलो भवति, तत्र गुञ्जाः कति भवन्ति ?, यथा-एकविंशत्यधिकशतप्रमाणाः किश्चिन्यूना एका गुञ्जा चेति, अनेन कवलमानेन पुरुषस्य द्वात्रिंशत्कवलरूप आहारो भवति १ स्त्रिया अष्टाविंशतिकवलरूप आहारः २ पण्डकस्य-नपुसकस्य चतुर्विंशतिकवलरूप आहारः ३ 'एवामेव'त्ति उक्तप्रकारेण वक्ष्यमाणप्रकारेण च हे आयुष्मन् ! एतया गणनया एतत्पूर्वोक्तं मानं भवति । ____ अथासत्यादिमानपूर्वकमष्टाविंशतिसहस्राधिकलक्षतन्दुलमानं चतुःषष्टिकवलप्रमाणं एवंविधं प्रस्थद्वयं प्रतिदिनं भुञ्जन् शतवर्षेण कति तन्दुलवाहान् कति तन्दुलांश्च भुनक्तीत्याह'दो असईउ पसई'इत्यादि, धान्यभृतोऽवाड्मुखीकृतो हस्तोऽसतीत्युच्यते द्वाभ्यामसतीभ्यां प्रसृतिः १ द्वाभ्यां प्रसृतिभ्यां सेतिका भवति २ चतसृभिः सेतिकाभिः कुडवः ३ चतुर्भिः कुडवैः प्रस्थः ४ चतुर्भिः प्रस्थैराढकः ५ षष्टयाऽऽढकैर्जघन्यकुम्भः ६ अशीत्याऽऽढकैमध्यमकुम्भः ७ आढकशतेनोत्कृष्टः कुम्भः ८, अष्टभिराढकशतैर्वाहो भवति है, अनेन वाहप्रमाणेन साधंद्वाविंशति तन्दुलवाहान भुनक्ति वर्षशतेनेति ।
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy