SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ८४ ] तन्दुलगैचारिकप्रकोर्णकम् । वीरव्रतधारी तदा असौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्धयन् यानि कटकानि परिदधाति तानि वीरवलयानीत्युच्यन्ते, किंबहुना वर्णितेनेति शेषः, कल्पवृक्ष इवालङ्कृतो दलादिभिर्विभूषितश्च फलादिभिः एवमसावपि मुकुटादिभिरलङ्कृतो विभूषितश्च भवति वस्त्रादिभिरिति, शुचिपदं-पवित्रस्थानमित्यर्थः, भूत्वा भूयः अम्बापितरो-मातापितराव भिवादयते-पादयोः प्रणिपातं करोतीत्यर्थः ।। तत:-अभिवादनानन्तरं 'ण'मिति वाक्यालङ्कारे तं पुरुष-स्वपुत्रलक्षणं मातापितरौ एवं वदेतां-कथयतां इत्यर्थः-- हे पुत्र ! त्वं जीव वर्षशतमिति, अथ यदि तस्य पुत्रस्य वर्षशतप्रमाणमायुः स्यात् तदा स जीवति नान्यथेति, तदपि च आयुः 'आई'ति अलङ्कारे तस्य-वर्षशतायुःपुरुषस्य न बहुकंवर्षशताधिकं भवति, कस्मात् ?, यस्माद् वषेशतं जीवन् विशतियुगान्येव जीवति निरुपक्रमायुष्कत्वात् , तत्र युगं-चन्द्रादिवर्षपश्चात्मकमिति १ । विंशतियुगानि जीवन् पुरुषः द्वे अयनशते जीवति, तत्रायनं षण्मासात्मकमिति २ । द्वे अयनशते जीवञ्जीवः षङ् ऋतुशतानि जीवति, तत्रतु: मासद्वयात्मकः ३ । षड् ऋतुशतानि जीवन् जन्तुर्द्वादश मासशतानि जीवति ।। द्वादश मासशतानि जीवन प्राणी चतुर्विंशतिपक्षशतानि जीवति २४००,-५ । चतुर्विंशतिपक्षशतानि जीवन पत्रिंशदहोरात्रसहस्राणि जीवति सत्त्वः ३६,०,००, ६ ।
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy