________________
८२ ]
तन्दुलगैचारिकप्रकीर्णकम् यथेति दृष्टान्तार्थः नामेति सम्भावनायां ए इति वाक्यालङ्कारे कश्चित पुरुषः स्नातः-कृतस्नानः स्नानानन्तरं कृतं-निष्पादितं बलिकम-स्वगृहदेवतानां पूजा येन सः कृतवलिकर्मा, तथा कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तार्थ-दुःस्वप्नादिविघातार्थमवश्यकरणीयत्वायेन स तथा, तत्र कौतुकानिमषीतिलकादीनि मङ्गलानि तु-सिद्धार्थंकदध्यक्षतर्वाङ्कुरादीनि, शिरसि-उत्तमाङ्ग स्नातः-कृतस्नानः, पूर्व देशस्नानमुक्तमिह तु सर्वस्नानमिति न पौनरुक्त्यं, कण्ठे-ग्रीवायां 'मालकडे'त्ति कृता माला-पुष्पमाला येन स कृतमाल: प्राकृतत्वात् 'मालकडे'त्ति, आविद्धानि-परिहितानि मणिसुवर्णानि येन स तथा, तत्र 'मणि'त्ति मणिमयानि भूषणानि एवं सुवर्णमयानीति, अहतं-मलमूपकादिभिरनुपहतं प्रत्यग्रमित्यर्थः सुमहाध्य-बहुमूल्यं वस्त्रं परिहितं येन स तथा, चन्दनेन-श्रीखण्डेनोत्कीर्ण-चर्चितं गात्रं-शरीरं येन स तथा, सरसेन-रसयुक्तेन सुरभिगन्धेन-सुष्ठु गन्धयुक्तेन गोशीर्षचन्दनेन-हरिचन्दनेन 'अन्विति' अतिशयेन लिप्तं-विलेपनरूपं कृतं गात्रं-शरीरं यस्य स तथा, शुचिनी-पवित्रे मालापुष्पमाला वर्णकं विलेपनं च-मण्डनकारि कुङ्कुमादिविलेपनं यस्य स तथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकोऽधंहारो-नयसरिकः त्रिसरकं-प्रतीतमेव यस्य स तथा, प्रालंबोझुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरण