SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ तन्दुलवैचारिकप्रकोणकम् "कम् [ ६१ मध्यभागो येषां ते तथा, गङ्गावर्तक इव प्रदक्षिणावर्ती--दक्षिणावर्ती तरङ्गरिव तरङ्ग:-तिसृभिर्वलिभिर्भगुरा तरङ्गभगुरा रविकिरणैस्तरुणं-अभिनवं तत्प्रथमतया तत्कालमित्यर्थः बोधितं--विकासितं 'विकोसायंत'त्ति विगतकोशं कृतं यत् पङ्कजं तद्वत् गम्भीरा विकटा च नाभियेषां ते तथा, 'उजुय.' ऋजुकानां-अवक्राणां समानानामायामादिप्रमाणतः 'सहिय'त्ति संहितानाम्--अविरलानां सुजातानां जात्यानां--स्वाभाविकानां तनूना--सूक्ष्माणां कृष्णानां--कालवर्णानां अथवा कृत्स्नानां-- अभिन्नानां स्निग्धानां-कान्तानां आदेयानां-सौभाग्यवतां लडहाना--मनोज्ञानां सुकुमारमृदूना,--अत्यंतकोमलानां रमणीयानां च रोम्णांतनुरुहाणां राजिः--आवलियेषां ते तथा, झपविहगयोरिव-मत्स्यपक्षिणोरिव सुजातौ-सुभूतौ पीनौ-उपचितौ कुक्षी--जठरदेशौ येषां ते तथा, 'झषोदरा' इति प्रतीतं पद्मवद् विकटा नाभियेषां ते तथा, इदं च विशेषणं न पुनरुक्तं पूर्वोक्तस्य नाभिविशेषणस्य बाहुल्येन पाठादिति, सङ्गतपार्थाः--युक्तपााः सन्नतौ-अधोऽधो नमन्तौ पाखौँ येषां ते सन्नतपार्थाः अत एव सुन्दरपार्थाः सुजातपार्थाः पार्श्वगुणोपेतपाः इत्यर्थः मितौ-परिमितौ मातृकौ-मात्रोपेतौ एकाथपदद्वययोगादतीव मात्रान्वितौ नोचितप्रमाणाद्धीनाधिकौ पीनौ-उपचितौ रतिदौ-रमणीयौ पाश्वौं येषां ते मितमात
SR No.022607
Book TitleTandul Vaicharik Prakirnakam
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages166
LanguageSanskrit
ClassificationBook_Devnagari & agam_tandulvaicharik
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy