________________
४६ ]
तन्दुलवैचारिक प्रकोणकम्
दशा - दशावस्थाः, दशवर्षप्रमाणा प्रथमा दशा - अवस्था १ दशवर्षप्रमाणा द्वितीया दशाऽवस्था २ इत्येवं दश दशाः, एवं - वक्ष्यमाणप्रकारेण 'आहिज्जंती'ति आख्यायन्तेकथ्यन्ते' तद्यथा- 'बाला ? किड्डा २' इत्यादिगाथा, बालस्येयमवस्था धर्मधर्मिणोरभेदात् बाला १, क्रीडाप्रधाना दशा क्रीडा २, मन्दो - विशिष्टबल बुद्धिकार्योपदर्शनासमथों भोगानुभूतावेव समर्थो यस्यां दशायां सा मन्दा ३, यस्यां पुरुषस्य बलं स्यात् सा बलयोगात् बला ४, प्रज्ञा - वाञ्छितार्थसम्पादनकुटुम्बाभिवृद्धिविषया बुद्धिः तद्योगात् दशा प्रज्ञा ५, हापयति पुरुषस्येन्द्रियाणि मनाक् स्वार्थग्रहणाप्रभूणि करोतीति हापनी ६, प्रपञ्चयति विस्तारयति खेलका सादि इति प्रपञ्चा ७, प्राग्भारं - ईषदवनतमुच्यते तदिव गात्रं यस्यां सा प्राग्भारा ८, मोचनं मुक् जराराक्षसीसमाक्रान्तशरीरगृहस्य मोचनं तं प्रति मुखं - आभिमुख्यं यस्यां सा मुन्मुखी ६, स्वाप - यति - निद्रायत्तं करोति सा शायिनी दशमी १०, एताः कालोपलक्षिताः दशाः कालदशाः उच्यन्ते इति ॥ ३१ ॥
अथ सूत्रेणैव दश दशा दर्शनन्नाह' - 'जायमि० ' श्लोकः, जातमात्रस्य जन्तोः- जीवस्य या सा प्रथमिका दशा - दशवर्षप्रमाणावस्था 'तत्थ'त्ति तस्यां प्रथमदशायां प्रायेण सुखं दुःखं वा नेति - नास्ति, तथाऽऽत्मपरेषां सुखदुःखं नैव जानंति बालकाः - जातिस्मरणादिज्ञानविकला इति ॥ ३२ ॥
-